SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ भवन्ति नैगमादयः, उक्तं च-"नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरुदैवंभूता नयाः” एते च द्रव्यास्तिकपर्यायास्तिकलक्षणे नयद्येऽन्तर्भाव्यन्ते, द्रव्यमेव परमार्थतोऽस्ति न पर्याया इत्यभ्युपगमपरो द्रव्यास्तिकः, पर्याया एव वस्तुतः सन्ति न द्रव्यमित्यभ्युपगमपरः पर्यायास्तिकः, तत्राऽऽद्यास्त्रयो द्रव्यास्तिकाः, शेषास्तु पर्यायास्तिकाः, पुनद्रव्यास्तिकोऽपि सामान्यतो द्विविधो-विशुद्धोऽविशुद्धश्च, तत्र नैगमव्यवहाररूपोऽविशुद्धः, सङ्ग्रहरूपस्तु विशुद्धः, कथम् !-यतो नैगमव्यवहारावनन्तपरमाण्वनन्तद्वयणुकाधनेकव्यक्त्यात्मकं कृष्णाद्यनेकगुणाधारं त्रिकालविषयं वा विशुद्धं द्रव्यमिच्छतः, सङ्ग्रहश्च परमाण्वादिकं परमाण्वादिसाम्यादेकं तिरोभूतगुणकलापमविद्यमानपूर्वापरविभागं नित्यं सामान्यमेव द्रव्यमिच्छति, एतच्च किलानेकताद्यभ्युपगमकलङ्केनाकलङ्कितत्वाच्छुडं, ततः शुद्धद्रव्याभ्युपगमपरत्वादयमेव शुद्धः । अत्र च द्रव्यानुपूर्येब विचारयितुं प्रक्रान्ता, अतः शुद्धाशुद्धखरूपं द्रव्यास्तिकमतेनैवासौ दर्शयिष्यते न पर्यायास्तिकमतेन, पर्यायविचारस्याप्रक्रान्तत्वादित्यलं विस्तरेण ॥७२॥ तत्र नैगमव्यवहारसंमतामिमां दर्शयितुमाह से किं तं नेगमववहाराणं अणोवणिहिआ दव्वाणुपुब्वी ?, २ पंचविहा पण्णत्ता, तंजहा-अटुपयपरूवणया १ भंगसमुक्त्तिणया २ भंगोवदंसणया ३ समोआरे ४ अणुगमे ५ (सू०७३) Jain Education Intel For Private & Personel Use Only Rinelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy