________________
अनुयो०
वृत्तिः
मलधारीया
माधि०
जनं यस्या आनुपूर्व्याः सा औपनिधिकीति प्रयोजनार्थे इकण्प्रत्ययः, सामायिकाध्ययनादिवस्तूनां वक्ष्यमाणपूर्वानुपूर्व्यादिप्रस्तारप्रयोजना आनुपूर्वी औपनिधिकीत्युच्यत इति तात्पर्यम् । अनुपनिधिर्वक्ष्यमाणपूर्वानुपूादिक्रमेणाविरचनं प्रयोजनमस्या इत्यनौपनिधिकी, यस्यां वक्ष्यमाणपूर्वानुपूादिक्रमेण विरचना न क्रियते सा व्यादिपरमाणुनिष्पन्नस्कन्धविषया आनुपूर्वी अनौपनिधिकीत्युच्यते इति भावः। आह-नन्वानुपूर्वी परिपाटिरुच्यते, भवता च त्र्यणुकादिकोऽनन्ताणुकावसान एकैकः स्कन्धोऽनौपनिधिक्यानुपूर्वीत्वेनाभिप्रेतो, न च स्कन्धगतत्र्यादिपरमाणूनां नियता काचित् परिपाटिरस्ति, विशिष्टैकपरिणामपरिणतत्वात् तेषां, तत् कथमिहानुपूर्वीत्वं ?, सत्यं, किन्तु व्यादिपरमाणूनामादिमध्यावसानभावेन नियतपरिपाट्या व्यवस्थापनयोग्यताऽस्तीति योग्यतामाश्रित्यात्राप्यानुपूर्वीत्वं न विरुध्यते । 'तत्थ ण' मित्यादि, तत्र याऽसावी
पनिधिकी द्रव्यानुपूर्वी सा स्थाप्या-सा न्यासिकी तिष्ठतु तावदल्पतरवक्तव्यत्वेन, तस्या उपरि वक्ष्यमाणहै त्वादिति भावः । अनौपनिधिकी तु पश्चान्निर्दिष्टाऽपि बहुतरवक्तव्यत्वेन प्रथमं व्याख्यायते, बहुतरवक्त-*
व्यत्वे हि वस्तुनि प्रथममुच्यमानेऽल्पतरवक्तव्यवस्तुगतः कश्चिदर्थस्तन्मध्येऽप्युक्त एव लभ्यते इति गुणाधिक्यं पर्यालोच्य सूत्रकारोऽनौपनिधिक्याः खरूपं विवरीषुराह-'तत्थ ण' मित्यादि, तत्र याऽसावनौप|निधिकी द्रव्यानुपूर्वी सा नयवक्तव्यताश्रयणात् द्रव्यास्तिकनयमतेन द्विविधा प्रज्ञप्ता, तद्यथा-नैगमव्यवहारयोः सङ्ग्रहस्य च, नैगमव्यवहारसंमता सङ्ग्रहसंमता चेत्यर्थः, अयमन भावार्थ:-इहौघतः सप्त नया
Jain Education in
For Private & Personel Use Only
M
ainelibrary.org