SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आगमओ जाणए उवउत्ते, नोआगमओ दुविहे पण्णत्ते, तंजहा-पसत्थे अ अपसत्थे अ, तत्थ अपसत्थे डोडिणिगणिआअमच्चाईणं पसत्थे गुरुमाईणं, से तं नोआगमओ भावोवक्कमे, से तं भावोवक्कमे, से तं उवक्कमे (सू० ६९) भावोपक्रमो द्विविधः प्रज्ञप्तः, तद्यथा-आगमतश्च नोआगमतश्च, तत्रोपक्रमशब्दार्थज्ञः तत्रोपयुक्तश्चागमतो भावोपक्रमः, 'से किं तं नोआगमओ'इत्यादि, अत्रोत्तरम्-'नोआगमओ भावोवक्कमे दुविहे' इत्यादि, इहाभिप्रायाख्यो जीवद्रव्यपर्यायो भावशब्देनाभिप्रेतः, उक्तं च-"भावाभिख्याः पञ्च स्वभावसत्तात्मयोन्यभिप्रायाः" ततश्च भावस्थ परकीयाभिप्रायस्योपक्रमणं-यथावत् परिज्ञानं भावोपक्रमः, स च द्विविधा-प्रशस्तोऽप्रशस्तश्चेति, तत्राप्रशस्ताभिधित्सया आह-से किं तमित्यादि । अत्र निर्वचनम्-'अप्पसत्थे डोडिणिगणिआअमच्चाईणं'ति इदमिह तात्पर्यम्-ब्राह्मण्या वेश्यया अमात्येन च यत् परकीयभावस्य यथावत् परिज्ञानलक्षणमुपक्रमणं कृतं सोऽप्रशस्तभावोपक्रमः, संसारफलत्वात्, तत्र कथं ब्राह्मण्यादिभिः परभावोपक्रमणमकारीति?, अत्रोच्यते, एकस्या ब्राह्मण्यास्तिस्रः पुत्रिकाः, तासां च परिणयनानन्तरं तथा करोमि यथैताः सुखिता भवन्तीति विचिन्त्य माता ज्येष्ठदुहितरं प्रत्यवोचत्-यदुत त्वयाऽऽवासभवनसमागमे खभर्ता १ प्रश्नोत्तरलेखमूलकादर्शानुसारेण वृत्तिरत्र. अनु. lain Education a l For Private Personel Use Only
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy