________________
अनुयो० मलधारीया
वृत्तिः उपक्रमाधि..
॥४९॥
कञ्चिदपराधमुद्भाव्य मूर्ध्नि पादप्रहारेण हन्तव्यो, हतश्च यदनुतिष्ठति तन्ममाऽऽख्येयं, कृतं च तया तथैव, सोऽप्यतिलेहतरलितमना अयि प्रियतमे! पीडितस्ते सुकुमालश्चरणो भविष्यतीत्यभिधानपूर्वकं तस्याचरणोपमर्दनं चकार, अमुं च व्यतिकरं सा मात्रे निवेदितवती, साऽप्युपक्रान्तजामातृभावा हृष्टा दुहितरं प्रत्यवादीत्-पुत्रिके! यद् रोचते तत् त्वदीयगृहे कुरु त्वं, न तवावचनकरो भर्ता भविष्यतीति । द्वितीयाऽपि तथैव शिक्षिता, तयाऽपि च तथैव खभा शिरसि प्रहतः, केवलमसौ नैतच्छिष्टानां युज्यत इत्यादि किञ्चित् कोपं कृत्वा निवर्तितः, अमुं च व्यतिकरं सा मात्रे निवेदितवती, हृष्टा पुत्रीं प्रत्यवादीत्-पुत्रिके! त्वद्भर्ता क्षणमेकं रुषित्वा स्थास्यति । एवं च तृतीययाऽपि प्रहतः, केवलममुना समुच्छलदतुच्छकोपेन उक्तम्-कुलीना त्वं?, यैवं शिष्टजनानुचितं चेष्टसे इत्याद्यभिधाय गाढं कुदृयित्वा गृहान्निष्काशिता, तया चाऽऽगत्य सर्व मात्रे निवेदितं, तयाऽपि विज्ञातजामातृभावया गत्वा तत्समीपे वत्स! कुलस्थितिरस्माकमियं यदुत प्रथमसमागमे वध्वा वरस्येत्थं कर्तव्यमित्यादि किश्चिदभिधाय कथमप्यनुनयितोऽसौ, दुहिता च प्रोक्ता-वत्से! दुराराधस्ते भर्ता भविष्यति, परमदेवतावदप्रमत्तया समाराधनीय इति॥ तथैकस्मिन्नगरे चतुःषष्टिविज्ञानसहिता गणिका, तया च पराभिप्रायपरिज्ञानार्थ रतिभवनभित्तिषु स्वखव्यापारं कुर्वत्यः सर्वा अपि राजपुत्रादिजातयश्चित्रकर्मणि लेखिताः, तत्र च यः कश्चिद् राजपुत्रादिरागच्छति स तत्रैव कृताभ्यासतया स्वकीयखकीयव्यापारमेव
१क्षणमेकं झषित्वा उपरतः, तस्मिँश्च तया मातुनिवेदिते मात्रा प्रोक्तम्-वत्से ! त्वमपि यथेष्टं त्वद्गृहे विजृम्भख, केवलं (इति पा.) २ नूनं प्र.
C
॥४९॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org