________________
भी अध्या.
धनवि. रख० वृत्ति
ग्रन्थका
रादिपरिचय
॥३४॥
टीकाकार
अन्यो
यः सौभाग्यगुणेन स्मारयतितमां च शीलगुणयोगात् । जम्बूस्वामिनमुच्चैः जयतात् श्रीविजयदेवगुरुः ॥ ७ ॥ श्रीआनन्दविमलगुरुशिष्याः श्रीसहजकुशलविबुधवराः । सिद्धान्तहेमनिकषाः बभूवुरुद्दामगुणनिवहाः ॥ ८ ॥
तेषां सुशिष्यमुख्या वाचकवरसकलचन्द्रनामानः । येषां गिरं सुधामिव निपीय भव्याः प्रमोदन्ते ॥ ९॥ श्रीशान्तिचन्द्रा वरवाचकेन्द्राः बभूवुरब्जप्रतिवीरवक्त्राः । शिष्येषु मुख्या बहुषु प्रवीणास्तेषां गुरूणां गुणभाजनानाम् ॥ १० ॥
___श्रीमजम्बूद्वीपप्रज्ञप्तेः वरवृत्तिरत्नसवितारः । श्रीमत्साहिअकब्बरभूपतिपर्षत्सु लब्धबहुमानाः ॥ ११ ॥ श्रीमजैनप्रवचनप्रभावनाकृत्यकरणविधिदक्षाः । आसन् विद्यादानैः शिष्याणां भूयसां च पूज्यतमाः ॥ १२ ॥ (त्रिभिर्विशेषकम् )। तेषां गुरूणां गुणसागराणां प्रसादलेशं समवाप्य चक्रे । अभ्यर्थितः शिष्यगणैर्विनीतैः वृत्तोत्तमं वाचकरनचन्द्रः ॥ १३ ॥
कृत्वा कृपां मयि बुधैः परिशोधनीयं संशोध्य वीतकलुषं परिवाचनीयम् ।
अन्योपकारविषये च सुलेखनीयं शिष्यादिपाठनपरैः परिशीलनीयम् ॥ १४ ॥ युगमुनिरसशशि (१६७४) वर्षे मासीषे विजयदशमिका दिवसे । वारे विवौ च विदधे वाचकवर रत्नचन्द्र इति चरितम् ॥ १५॥ त्रिसहस्राः पंचशती पुनरेकोनसप्ततिः श्लोकानाम् । इह सर्वाय वर्णाः षोडश चाधिकाः ग्रन्थानम् ।।-३५६९ श्लोकाः॥ १६ अक्षराः संवत् १६७४ वर्षे आश्विनमासे विजयदशमी दिवसे सुरतबन्दरे महोपाध्याय श्रीरत्नचन्द्रगणिभिः विरचितं प्रद्युम्नचरित्रं संपूर्णम् ।।
આમાં પોતાના ગુરુ શાંતિચંદ્ર અકબર બાદશાહના દરબારમાં બહુમાન મેળવનારા, શ્રી જૈનપ્રવચનની પ્રભાવના કરવાની વિધિમાં દક્ષા અને ઘણું શિષ્યોને વિદ્યા આપવાથી પૂજ્યતમ થયેલા હતા એમ જણાવ્યું છે. તદુપરાંત છેલ્લા ૧૭મા સર્વે અંતે ગધમાં એમ વર્ણવ્યું છે)
॥३४॥