________________
आ०प्र० दर्शनाचार: ॥४०॥
न्यापादनमित्यादि गतसर्वस्व इवोच्चैः शोचति क्ष्माभृति स्थपतिपतिः पतत्रिपतेर्महापोतस्यैव गतिवेगं सोद्वगं कयश्चिनिषिध्य पश्चाद्वालनाय कीलिकां करे यावद्हणाति तावत्तामितरां निश्चित्य चिन्ताचान्तस्वान्तःक्ष्माकान्तमित्यूचे-देव ! दुर्दैववशाहष्टेन केनापि कीलिका परावर्त्तयाश्चक्रे, नियतमियं मामिका कीलिका न भवति, न च मामकीनां कीलिकामाकाशगमनशक्तिमिव विना विनतातनयोऽयं पश्चाद्गन्तुमलंभूष्णुः, अतः परं परंतपाधिपते ! अत्रेकमेवोपयिकमस्ति, यद्यग्रत एवासमदृश्यमाननगरान्तर्गम्यते तदा नव्यां कीलिकां कचन रथकारमन्दिरादौ निर्ममे, तत्मयोगेण च निष्पत्यूहं पुनः पश्चाद्गमनं स्याद्, अन्यथा तु । नियतमत्रैव भूतलपतनाद्यनर्थों भावी जीवितस्यापि संशयकृदिति तदुदिते कुवैद्योदिते मुखमिष्टे परिणतिदुष्टे भैषज्य इव प्रोच्चकैरोचकितांहुंहुङ्कारकरणादिना दर्शयन्नुर्बीशस्तमब्रवीत्-आः किमिदं स्वात्मनोऽनुचितमवक्तव्यमश्रव्यमब्रवीः?, विशुद्धधर्ममर्मस्पृशो भवादशोऽपि यद्येवं धर्मविधिविध्वंसकं वचः प्रपञ्चयिष्यन्ति हन्त हता तर्हि निराश्रया सर्वापि धर्मव्यवस्थितिः, को हि नाम मृढात्मा प्रतिभवसुलभैहलौकिकजीवितव्यसुखाधिकृतेऽनन्तभवैरपि दुरासदं पारलौकिकपरमपाथेयभूतं स्वाभ्युपगतं धर्म मरुस्थलान्तः कथञ्चित्याप्तकल्पशालमिव समूलमुन्मूलयेत् ?, यतोऽनाभोगव्याक्षेपादिना नियमभङ्गोऽपरिज्ञाय भूयानपि यदि भवेत्तदाप्यङ्गीकृतव्रतस्य मालिन्यरूपोऽतिचार एव, ज्ञात्वा तु स्वल्पेऽपि नियमभङ्गे स्वीकृतव्रतस्य भङ्ग एव, अतिचारेण खण्डितं च व्रतमपककुम्भवत्सुखेन सन्धातुमपि शक्य, भग्नं तु तत्पककुम्भवत् केन कथं वा मुधियाऽपि सन्धीयते ?, किश्च सचेतसां व्रतातिचारहेतु:.प्रमादाचरितमेवात्यन्तमनुचितं, ज्ञात्वा तु नियमातिक्रमस्तस्यापि चूलिका, तस्माद्यद्भवति तद्भवतु परं प्राणा- ITED न्तेऽपि पुरतः पदमात्रमपि गमनं सर्वथैव नानुमन्ये, प्रतिपन्न निर्वाहस्यैव महतामुचितत्वात,-प्रतिपन्नस्य निर्वाहो, महतामिह
गरुडगातः लक्षणम् । प्रतिपन्नेऽपि शैथिल्यमितरेषां तु लक्षणम् ॥१॥' जलधूलिधरित्र्यादिरेखावदितरेषकाम् । परं पाषाणरेखेव, प्रति- ॥४०॥
and
For Private & Personal use only
www.jainelibrary.org