________________
बा०प्र० दर्शनाचार॥३३॥
पुत्रादेस्त्याज्यभृत्यादेरिव विक्रयं मृतस्येव परित्यागं केचिनिःशूकतया तन्मांसभक्षणाद्यप्यसमंजसमाचरन्ति, उक्तं च-"मानं मुश्चति गौरवं परिहरत्यायाति दीनात्मतां, लज्जामुत्सृजति श्रयत्यदयतां नीचत्वमालम्बते । भार्याबन्धुसुहृत्सुतेष्वपकृती नाविधाश्चेष्टते, किं किं यन्न करोति निन्दितमपि प्राणी क्षुधा पीडितः १॥१॥" यच्च सर्वेभ्योप्युपद्रवेभ्योऽतिभैरवं, 'परचक्रागमवत्याधुपद्रवे किमपि तिष्ठति क्यापि । विश्वोत्पातसदृशं दुर्भिक्षं त्वखिलसंहारि ॥१॥' ईदृक्षे महादुर्भिक्षे वर्तमाने महत्स्वकुटुम्ब निर्वाहयितुमनलंकर्मीणः कोकाशः सकलमपि कुटुम्ब सहादाय दुर्भिक्षाद्युपद्रवैरकृतप्रवेशे मालवदेशे निजसमृद्धिविशेषनिःशेषनगर्युज्जयनीमुज्जयनी क्रमाज्जगाम, परं तत्र न कश्चित्परिचित उपलक्षितोवा यं पुरस्सरीकृत्य राज्ञो मिलति स्वकलाकौशलं च दर्शयति, न च ताहकलापात्रस्य दन्तीन्द्रस्येव क्षितीन्द्रमन्तरेणापरं निर्वाहपदं, यतः-" अवीनादौ कृखा भवति तुरगो यावदवधिः, पशुधन्यस्तावत्यतिवसति यो जीवति सुखम् । अमीषां निर्माण किमपि तदभूदग्धकरिणां, वनं वा क्षोणीभृद्भवनमथवा येन शरणम् ॥१॥" न च तादृगवस्थं तं कलावन्तमपि क्षीणकलावन्तमिव कश्चिद् दृग्भ्यामपि साक्षेप प्रेक्षते, दूरेऽस्तु स्थानप्रदानादिसन्मानकथापि । ततः स सध्विनीनसाधारणायां देशकुटयां विषीदनिषीदति स्म, उक्तं हि-"दोःस्थ्य
नाम पराभूतेः, स्थानमाद्यं न संशयः। राजापि गोपतेः पादान, क्षीणः संसेवते यतः ॥१॥” ततः स प्रत्युत्पन्नमतिर्विज्ञान| नैपुणमेव सर्वाभीप्सितार्थसाधनानुगुणमिति विमृश्य परम्शतान काष्ठपारापतान् प्रौढतरान् विनिर्माय तादृकीलिकादिप्रयोगेण
राज्ञः कोष्ठागारेषु प्रेषयति, तेऽपि जीवन्त इव तत्क्षणात्तत्र गला कणादानचञ्चुभिर्निजचञ्चुभिः शालितण्डुलैजठराणि कोष्ठपू-नि:शकि० रमापूर्य पश्चादागच्छन्ति, तैः कणैः सः स्वकुटुम्ब निर्वाहयति स्म, अन्यदा शालिरक्षकैः शालितस्करं सम्यग्गवेषयद्भिर्दष्टाः कोकाशच० काष्ठकपोताः पोता इव शालिकणैः परिपूरिताः क्षमापतिकोष्ठागारेभ्यः सत्वरं निस्सरन्तः, पाप्ताश्च साश्चर्यचेतसः काष्ठकपोत- ॥३३॥
Jain Education Internal
For Private & Personal use only
ENaw.jainelibrary.org