________________
दीशमूर्तः, कर्तु सेवां किन्तु यत्रावतीर्णा। जातिर्वानस्पत्यशेषा विशेषात, कोवा तादृक्तीर्थमुच्चैःश्रयेन ?॥१॥ तत्र सर्वत्र विख्यातमहाविक्रमधनो विक्रमधनो नाम नरेन्द्रः, बलिधाम्नि सुधाधानि च नान्धौ च सुधा हि यदसिधारायाम् । यामास्वाद्य सपद्यप्यरयः श्रियमामरीमभजन ॥१॥ तत्र च नगरे नरेश्वरस्य परमप्रसादपात्रं त्रिजगदद्वितीयकलाकलापकुशलः परिवसतिस्म रथकाराग्रणीः सोमिला, तस्य प्रशस्यगुणनैर्मल्यनिर्जितसोमा सोमानाम भार्या, तयोस्तनुजन्मा देविलनामा, तस्यैव रथकारस्य दास्याः पुत्रो द्विजाज्जातः कोकाशनामा, स च रथकारः स्वतनूरुहं प्रत्यहं महाक्षेपेण स्वकलाग्रहणं कारयति, यतः-"पितृभिस्ताडितः पुत्रः, शिष्यश्च गुरुशिक्षितः। घनाहतं सुवर्ण च, जायते जनपण्डनम् ॥१॥" परं तत्पुत्रस्य न तादृशी बुद्धिर्नापि तादृशी हृदयशुद्धिान च ताहकोऽपि विद्याग्रहणविषयोद्योगः नापि ताग भाग्ययोगः, तेन तत्पित्रा बहवाक्षेपकरणेऽपि न तस्मिन्किचित्कलाकौशलमुन्मीलति, वैकटिकेन बहुयत्नविधानेऽप्यन्धोपल इव निर्मलता, उक्तं च-"नानुद्योगवता न च प्रवसता | मानं न चोत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्यविद्वेषिणा। न भ्रभङ्गविलासविस्मितमुखीं सीमन्तिनीं ध्यायता, लोके
ख्यातिकरः सतां बहुमतो विद्यागुणः पाप्यते ॥१॥” मतिस्फीतिबृहस्पतिसङ्काशः कोकाशस्तु दासत्वेन रयकारतनूरुहस्य पार्थ तूष्णीकतयैव तिष्ठन्नपि हेलयैव सकलाः कलाः पागूलिखितपठिता इव कलयामास, धारयामास च सोमिलादपि क्रमेणाधिकतरं रथकारकलाकौशलं 'स्थाने बीजं शुक्तौ स्वातिजलं सति च सत्कृतिः पात्रे । दानं मतिमति विद्या वक्तरि वाच्यं च वृद्धयै स्यात् ॥१॥' रथकृत्तनूजस्तु शून्यहृदयः कलाशून्यतया कलादवन्निष्कलतामेवाचकलत्। कालक्रमेण च सोमिलरयकारे कृतस्वर्लोकावतारे पुत्रस्य कलाविकलतया कोकाश एव नृदेवशासनात्तत्पदमलञ्चक्रे, विद्या हि कामदुघेव पुंसः किं नाम कामितममितमपि न दत्ते ?, उक्तं च-विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धन, विद्या भोगकरी यशःसुखकरी विद्या गु
Jain Education International
For Private & Personal use only
www.jainelibrary.org