________________
अ० प्र० ज्ञानाचार
॥३०॥
मम वैरनिर्यातना भवतीति तयोरुक्तम-पुत्रां यज्ञे हिंसां प्रवर्त्तयतमहं सर्वत्र सान्निध्यं करिष्यामि, ततो महाकालेन पुरग्रामादौ रोगा विकुर्विताः, यत्र यत्र च पर्वतक पिप्पलादौ हिंसात्मकं यागं कारयतस्तत्र तत्र सः असुरो रोगानुपशमयति, यज्ञहतांच पश्वादीन विमानस्थानमरीभूतान् साक्षाद्दर्शयति, ततः सर्वेऽपि भृशं सादराः सगरनृपादयस्तथा चक्रुः, एवं मनुष्यहिंसाऽपि निःशुकैः शनैः शनैः प्रवर्त्तिता, ततो मायया मोहयित्वा महाकालेन सभार्यः सगरोऽध्वर जुहुवे, पिप्पलादेन च स्वपितृमाhers, तदर्थत्वात्तयोरुपक्रमस्य एवं महानर्थहेतवोऽनार्या वेदाः प्रवृत्ताः । आर्यस्तु वेदान् माणवकनिधेरुध्धृत्य प्रतिदिनभो ज्यमानश्राद्धपठननिमित्तं श्रीतीर्थकर स्तुतिरूपान् श्राद्धधर्मप्रतिपादकांच भरतश्चक्री चक्रे ॥ इत्यमर्थान्यथाकरणे पर्वतज्ञातम् । व्यञ्जनार्थोभययोरन्यथाकरणेऽनन्तरकथामध्योक्तोऽनावेदकारी तयाख्याता च पिप्पलादो यद्वा श्रीगुप्ताचार्यशिष्यनोजीस्थापकत्रैराशिकरोहगुप्तादयो दृष्टान्ताः । एवं व्याख्याताः पष्ठसप्तमाष्टमा व्यञ्जनार्थतदुभयाचाराः ॥ ८ ॥ एवमष्टविधो ज्ञानाचारः सम्यगाराधनीयः । इति श्रीतपागच्छश्रीसोमसुन्दरसूरिशिष्यश्री रत्नशेखरसूरिविरचिते श्रीआचारप्रदीपे ज्ञानाचारप्रकाशकः प्रथमः प्रकाशः (ग्रन्थानं १२१२ अ. १७ )
अथ दर्शनाचारो व्याख्यायते तत्र दर्शनं सम्क्यत्वं, तत्स्वरूपं समपञ्चमस्मदुपज्ञश्राद्धप्रतिक्रमणसूत्रवृत्तेर्ज्ञेयं, दर्शनाचाराराधनं च नव्यप्रासादप्रतिमानिर्मापणजीर्णोद्धारादिनाऽर्हद्भक्तिपोषणतः साधुवरिवस्यासआत जिनमतनैपुणतश्च स्यात् । तत्राह-द्भक्तिपोषः कोकाशकाकजङ्घनृपाभ्यां प्राग्भवे यथा कृतस्तथा कार्यः, जिनमतनैपुणं च कोकाशवत्, दर्शनशुद्धौ च स्वीकृतश्राद्धधर्मनियमेषु प्राणान्तेऽपि दादर्थमेव स्यात् नतु शैथिल्यं, यथा स्वीकृतदिग्वते काकजङ्घ नरेन्द्रस्य, तयोः सम्बन्धश्वायम्भरतभूमिभामिनीभूषणमाणिक्यकङ्कणायमानश्रीमत्कुङ्कणाभिधानदेशशृङ्गारकं सोपारकं नाम पुरं 'जीवरस्वामिश्रीयुगा
Jain Education Intional
For Private & Personal Use Only
अर्थान्यथा
त्वे वसुदृ
॥३०॥
www.jainelibrary.org