________________
न्तस्तयोर्विवादे प्रकृष्टपातकमप्यादृत्य वसुः कूटसाक्ष्यं यावध्यधात् तावदेवतया चपेटयाऽऽहत्य पातितो मृतो नरकं ययौ, एवं तत्पदे निवेशितास्त सुता अपि क्रमादष्टौ देवतया निहताः, दुस्सहो हि दैवतः कोपः, द्वौ तु पुत्रौ नष्टौ, ततः पर्वतकः पौरैधिकृत्य निर्वासितो महाकालासुरेण सहीतः, तत्सम्बन्धस्वयम्
अयोधननृपेण स्वपुत्र्याः स्वयंवरे प्रारब्धे जनन्या कन्यायाः प्रच्छन्नं प्रोक्तं-मद्धातव्यो मधुपिङ्ग एव त्वया वरणीयः, 16 तच्च सर्व नृपमुख्यः सगरो रहःस्थितस्वदूतीमुखात् ज्ञाखा स्वपुरोहितं कन्यावरणोपायं पप्रच्छ, सोऽपि सद्यःकविः कपटपटुर्नव्यां
राजलक्षगसंहितां कृखा सभाऽन्तस्तथा व्याचरव्यौ यथा लक्षणैः सगरः प्रकृष्टः स्यात् मधुपिङ्गस्त्वपकृष्टः, ततः स सर्वैपादिभिहस्यमानो हिया निर्गतः, सगरस्तु कन्यया वृतः, ततो मधुपिङ्गः कुवा तपः कृषा महाकालोऽसुरोऽजनि । तयोश्च तृतीयः पिष्पलादोऽपि मिलितः, तवृत्तान्तस्त्वेवम्
मुलसासुभद्रारुपे परिवाजिके द्वे जनविख्याते अभूतां, तयोश्च मुलसा विशिष्यतमा विदुषी, यो मां वादे जयति तस्याहं शिष्य इति पटहोघोषिणं याज्ञवलस्यं परिव्राजकं वादे जित्वा स्वशिष्यीचक्रे, क्रमात्तस्यातिपरिचपेऽकार्यप्रवृत्त्या मुलसाया : गर्भ जाते ज्ञाते च सुभद्रया निष्ठुरमुपालब्धा प्रच्छन्नं च धृता, पुत्रप्रसवे सुभद्राया अज्ञातमेव पिपलस्याधः पुत्रं त्यक्त्वा तौ निर्गतौ, प्रातः पदानुसारेणान्वेषयन्त्या सुभद्रया डिम्भो दृष्टः, स च क्षुधितः स्वयं पिष्पलफलं मुखे पतितमासादितवानिति पिप्पलाद इति कृतनामा सुभद्रया वतिः , पाठितश्चातिवाग्मी जातः, स्वजन्मसम्बन्धे ते पित्रोः प्रदेष वहन वधार्थमनार्योsनार्यवेदांश्चकार, तेषु चेदं प्ररूपयाञ्चकार, यदुत-राजभिरश्वादिशान्तिनिमित्तं स्वर्गावाप्तये च पशुतुरगगजमनुष्यादिभिर्याग: काय इति, महाकालेन चाचिन्ति-यद्येतयोरुत्या राजादयो यागे हिंसां कुर्वन्ति तदा मृत्वा नरकं यान्तीति सगरादिनृपाणां
For Private & Personal Use Only
Sain Education
Altional
JASTwww.jainelibrary.org