________________
आ० म० ज्ञानाचार
॥ २९ ॥
Jain Education Intern
ससुर
तच्छ्रुत्वोपाध्यायः खेदाद् दध्यौ धिग्मय्यप्यध्यापके शिष्यौ नरकं यास्यतः, तदेषां मध्ये कः स्वर्ग कौ च नरकं यास्यतीति तनिर्णया परीक्षायै त्रयाणामेकैकं पिटकुर्कुटमर्पयित्वा तंत्रामी वध्या यत्र कोऽपि न पश्यतीत्यादिदेश, ततो वसुपर्वतौ शून्यमदेशे गत्वा तं जघ्नतुः, नारदस्तु दूरदूरं शून्यस्थाने गतोऽपि सुधीत्वेन दध्यौ - अत्राप्यहं सुराः सिद्धा ज्ञानिनथ पश्यामः, तत्स्थानं तु विश्वेऽपि नास्ति यत्र कोऽपि न पश्यति, तद् ध्रुवमवध्योऽयमित्येव गुरुगिरां तात्पर्य, प्रकृतिकृपालुभिस्तैर्वधा देशप्रदान स्वस्मत्परीक्षार्थमेव, ततस्त्रयोऽपि पश्चादागत्य स्वं स्वं स्वरूपं व्यजिज्ञपत्, उपाध्यायेन नूनं नारदः स्वर्गगामात निश्चित्य गौरवमालिलिङ्गे, इतरौ तु तर्जितौ, तद्वैराग्यादेवोपाध्यायः प्रववाज, तत्पदं पर्वतकोऽध्यास्त, क्रमादभिचन्द्रनरेन्द्रे मत्रजिते वसुर्वसुमतीविभुर्वभूव स च सत्यवादिलमसिद्धिस्थैर्याय सत्यमेव वदति, अन्यदा मृगयार्थं गतेन मुगयुणा विन्ध्याचले आकाशस्फटिक शिलासङ्क्रान्तं मृगं प्रति निक्षिप्तवाणस्खलनात्पाणिस्पर्शेन सा ज्ञाता, तां च राज्ञे विज्ञतवान्, राजाऽपि तस्मै पारितो पिकं दवा तया स्वासनवेदिकां प्रच्छन्नं घटयित्वा शिल्पिनथ हत्वा तां निजसिंहासनादधोऽतिष्ठन्द, सत्यवादित्वेन खे सिंहासनं तिष्ठतीति स्वरव्यातिमुदघोषयच्च तत्यसिद्ध्याऽस्य सुराः सानिध्यं कुर्वन्तीति भिया भूपाः सर्वे वशीवभूवुः । अन्यदा पर्वतकम् 'अजैर्यष्टव्य' मिति ऋग्वेदपदे अजः - मेषैरिति व्यारव्यातं श्रुत्वा नारदोऽवादीत्-मैवं वादीः, यतो न जायन्त इत्यजा:वार्षिकं धान्यमित्येवं गुरुणा व्यारव्यातं, मा धर्मोपदेष्टारं गुरुं धर्मात्मकां च श्रुतिपन्यथा कार्षीरित्यादि बहूक्त्याऽप्यभिमानान सव्यरंसीत्, ततस्ताभ्यां जिह्वाच्छेदः पणीचक्रे, वसुश्च साक्षीचक्रे, तच्छ्रुत्वा पर्वतजननी रहस्तमाह-मयाऽपि त्वत्पिता वार्षिकधान्यान्येव व्याकुर्वन् श्रुत इति किं मिथ्यैव महानर्थकरणं पणं करोषि ?, तेनोक्तं यत्कृतं तत्कृतमेवेति यथार्हमुपायं चिन्तय, साऽपि पुत्रमोहमोहिता पुत्रहितार्थ तथा वसुनृपाय प्रोक्तत्रती यथा गुरुपत्नीदाक्षिण्याद्यथोक्तं तेन मेने, मातः पर्षद
For Private & Personal Use Only
व्यञ्जनाधि
क्ये कुणा०
।। २९ ।।
lainelibrary.org