________________
लिपुत्रे गखा गान्धा कलया निरतुलया पौरान रञ्जयामास, तत्कलां श्रुत्वा नृपतिरशोकश्रीर्जवनिकान्तरे तं निवेश्य गातुमादिदेश, सोऽपि हृद्यपद्यम्बन्धेन गायन 'चंद गुत्तपत्तो उ, बिंदुसाररस नत्तुओ। असोगसिरिणो पुत्तो, अंधो .जायइ कागणिं ॥१॥ इति जगौ, ततः सगौरवं जगदे जगतीजानिना-कोऽसि त्वं ?, तेनोक्तम्-कुणालनामा तव सूनुस्त्वदाराधनकाग्रचित्तः पापेभ्योऽपि प्रणयपात्रे स्वनेत्रे अपि यो निर्गमितवान् , ततः सस्नेह रोमाञ्चकञ्चुकितदेहं तं परिष्वज्य तुष्टोऽस्मीति हृष्टः सन्नाचष्ट पार्थिव विशिष्टः, स ऊचे-काकी याचे न त्वन्यत्, राजा जगाद-वत्स ! स्वच्छमते किमतितुच्छ तममियद्याचितम् ?, तदानीं सचिा अबोचन्-राजन् ! राजपुत्राणां काकणीशब्देन राज्यमुच्यते, ततः क्षमापतिस्तं प्रति जल्पति स्म-है तात ! धीधाम किं नाम तव राजलक्ष्म्या? कथं वा दृग्विधुरत्वेन विविधव्यापारपाज्यं राज्य निर्वाहयिता ? कथं वा तमर्हसि ?, कुमारोऽपि कथयति रम-हे तातपादास्तातपादानां प्रसादतरतातपादानां पौत्रः पवित्रलक्षणपात्रं जातोऽस्ति तदर्थ राज्यं याचे नतु मदर्थ, ततः पोचैः प्रमुदितः क्षितिदयितः स्वतनयं सप्रणय प्रोचे-कदा मुदास्पदं विशदात्मा त्वात्मभूरभूत ?, कुमारः। प्रोवाच-सम्मत्येव, ततः परमशीतिस्फीतिविवश उर्दीशः सम्पति पुत्रो जात इति मुहुर्मुहुराजुघोष, दशाहादनु तं महत्तममहैरानाय्य प्राज्यप्रमोदाक्रान्तः क्ष्माकान्तः सम्मतीत्येव नामस्थापनां विधाय राज्ये निवेशयामास, स सम्मतिनृपतिस्त्रिखण्डभोक्ता परमाईतः श्रीमुहस्तिमूरिनिदेशेन श्रीजिनमतसाम्राज्यं सर्वप्रकारैरेकच्छत्रीचक्रे । इति व्यअनाधिक्ये आख्यानकम् ॥
अर्थ यान्यथाकरणादौ विशेषतः पूर्वोदिता दोषाः, अत्र दृष्टान्तोऽयम, शुक्तिमतीपुर्यां श्रीमुनिसुव्रतस्वामिवंशेऽभिचन्द्रनरेन्द्रसुतं सत्यवादिवेन विश्रुतं वसु पर्वतकाख्यं रखपुत्रं नारदं च क्षीरकदम्बकोपाध्यायः परमाहतः पाठयति, अन्यदा पाठश्रान्तेषु तेषु निशि सौधोपरि सुप्तेषु चारणश्रमणौ व्योम्नि ब्रजन्तावन्योऽन्यमित्यूचतुः-एषामेकः स्वर्गगामी अपरौ तु नरकगामिनी,
For Private & Personal Use Only
Jain Education In
tional
Plaw.jainelibrary.org