________________
सप.प.फफफफरहरहरहसहरसरफरार
विद्यो हृष्टोऽभयकुमाराय विद्यासाधनोपायमुक्त्वा स्वस्थान प्राप। __अथव्यअनाधिक्ये कथानिका, यथा-पाटलीपुत्रपत्तने नवमं नन्दनृपंप्रतिज्ञापूर्वकमुत्थाप्य चाणक्येन मयूरपोपकग्राममहत्तरदौहित्रश्चन्द्रगुप्तो राज्ये न्यवेशि। तस्याङ्गभूबिन्दुसार भूपस्तत्सूनुःपुनरशोकश्रीनृपस्तेन स्वतनयाय कुणालाहवयाय वाल्येऽप्यतुल्यप्रणयात्कुमारभुक्त्यर्थमुज्जयनी प्रददे, ततोऽत्र स्थितस्यास्य मा विमातृभ्यः पराभवो भूदिति नृपादेशात् स तत्र तिष्ठन् सचिवादिभिः पुष्पवत् पाल्यमानो यावदष्टवार्षिकोऽजनिष्ट तावत्पुत्रः पाठयोग्य इति विमृश्याधीयतां नः कुमार इति लेख लिखित्वा यावद्राजा किञ्चित्कार्यव्यग्रोऽजनि तावद्विमात्रा तत्रागत्य तल्लेख वाचयित्वा कुगाल कुमारेऽव्यङ्गे सति तस्यैव राजा राज्यं दास्यति नतु मत्पुत्रस्येति विचिन्त्याकारस्य सहसा शिरसि बिन्दु ददौ, ततोऽधीयतां नः कुमार इति जातम्, अहो! बिन्दुमात्राधिक्येऽप्येकातहितस्याप्यर्थस्यैकान्ताहितत्वम्, क्षणान्तरे नरेश्वरस्तं लेखमवाचयित्वैव मुद्रयित्वोज्जयन्यां प्रेषयामास, तं च सचिवो वाच यस्तथा दृष्ट्वा खेदानृशं विषादमाससाद, लेखार्थ वक्तुमक्षमः सानुग्यावज्जज्ञे तावत्कुमारः स्वयं लेखपवाचयत् , तत्र चान्धीयतां नः कुमार इति दृष्टया जातात्यन्तोद्वेगावेगादध्यिवान्-नूनं मया क्वानि पितुराज्ञाभङ्गो विदये, नो चेपिता ममैकान्तहिताकाक्षी कथमेवं आज्ञापयति ?, ततः स किसुतो यः पितुराज्ञामुल्लड्डन्यतीति विमृश्य मन्त्र्यादिभिर्नृपादेशनिणयपरिज्ञानार्थ किञ्चित्कालविलम्बाय बहुक्तोऽपि सहसैव दुर्दैववशतस्ततायःशलाकया स्वनपने स्वयमजयामास । अहह महतामपि महानर्थमूलं सहसाकारित्वं, तदाह-"सहसा विदधीत न क्रियामविवेकः परमापदां पदम्। वृणते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव स. म्पदः॥१॥ ईग्दुर्विपाककार्ये हि गुर्वाज्ञाराधकस्यापि 'अशुभस्य कालहरण' मित्युक्तेविलम्बकरणमादेशत्रयापेक्षणं च पुसां श्रेयस्करणं, यत:-क्षणेन लभ्यते यामो, यामेन लभ्यते दिनम् । दिनेन लभ्यते कालः, कालात्कालो भविष्यति ॥१॥' अत एव
INR
Jain Education International
For Privale & Personal use only
www.jainelibrary.org