________________
सज्जाक्षमावी, तद्वाक्यं लघु हनुखे समारव्याय तदाज्ञया शेषामादाय स्कन्धावारमध्यमेत्य राजामात्यान् प्रत्याह-भो ! भो ! स्वनायमस्म सम्मुखमानयध्वं यथा सहस्रकरकर विकस्वरसहस्रपत्रतुलित नेत्रपत्रं कुर्महे, ततोऽमात्यप्रेरितः क्ष्मादयितस्तत्रागतस्वदितां शेष सबहुमानमादायाक्ष्णोर्निवेश्य सज्जाक्षः सज्ञे, तवस्तुष्टचित्तः क्ष्मावित्तः शासने ग्रामशतानि व्यतरद्, अत्रैव चेमयुतुङ्गे गिरिशप्रासादमचीकरच्च, स भरटकर्षिरस्मिन् प्रासादे तिष्ठन्नृदिमान्यतया जैनप्रासादं कारयितु न दत्ते, मिथ्यादृशो हि बलिनः तस्मात्तथा कथञ्चित्यतां यथतस्मादतिशायि तु च जैनचैत्यमत्र निष्पद्यते, भगवतामेवात्रार्थं सामर्थ्यमिति श्राद्धविज्ञ वा यतीश्वरोऽवन्तीमागत्य नव्य निर्मिताद्भुतचतुःश्लोकी पत्रहस्तो विक्रमादित्यनरेन्द्र सौवसिंहद्वारमेत्य द्वास्थेनोपनृपं श्लोकमेकमची कथद्, यथा- दिक्षुर्भिक्षुरायातस्तिष्ठति द्वारि वारितः । हस्तन्यस्तचतुः श्लोक, उतागच्छतु गच्छतु ? || १ || लोकं श्रुत्वा विस्मितेन विक्रमादित्येन प्रतिश्लोकः कथयाञ्चक्रे, यथा- दीयतां दश लक्षाणि, शासनानि चतुर्द्दश । हस्तन्यस्तचतुःश्लोक, उतागच्छतु गच्छतु ॥ १ ॥ कवीन्द्रस्तं श्लोकं श्रुखा द्वास्थद्वारेणेदं राज्ञे व्यजिज्ञपद्-देव ! दर्शनमेव भिक्षुराकाङ्क्षति न त्वर्थ, ततः स राज्ञा स्त्रसमीपनाहूतः उपलक्षितः सिंहासनादुत्थाय सबहुमानतः साग्रहं सिंहासने निवेश्य सभक्ति सम्भाषितश्च भगवन् ! किमिति चिरादृश्यध्ये ?, तैख्वे-भो भूसौधर्म ! सधर्मकार्यैकाग्र्यव्यग्रत्वेन चिरादायासिष्म, शृणु : श्लोकचतुष्कमिदम - अपूर्वेयं धनुर्विद्या, भवता शिक्षिता कुतः । मार्गणौघः समभ्येति, गुणो याति दिगन्तरम् || १ || सरस्वती स्थिता वक्रे, लक्ष्मीः करसरोरुहे । कीर्त्तिः किं कुपिता ? राजन्!, येन देशान्तरं गता||२|| कीर्त्ति ते जातजाइयेव, चतुरम्बुधि मज्जनात् । आतपाय घरानाथ !, गता मार्तण्डमण्डलम् ॥ ३ ॥ सर्वदा सर्वदोऽसीति, मिथ्या संस्तूयसे बुधैः । नारयो लेभिरे पृष्ठं, न दक्षः परयोषितः॥ ४॥ इत्यद्भुतकविताकर्णनश्रीणितात्मा विक्रमादित्यतुरः करीन्द्रान् श्रचीरैः १ सुरभित्रस्तुस्तोमैः
For Private & Personal Use Only
Jain Education International
Sweeteners
www.jainelibrary.org