SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आ० प्र० ज्ञानाचार. ॥ २५ ॥ Jain Education Inte चारावसरे एवावहितीभूतश्रीधरणेन्द्रसान्निध्येन पूर्वं शिवलिङ्गाद्वमस्ततो धूमध्वजज्वाला प्रोच्चैः प्रादुर्बभूव, ततो लोकैः सहस्ततालं सकोलाहलमनल्प जजल्पे - नूनमनूनकोपकालानलदो रुद्रो निजतृतीय नेत्रानलेन ध्रुवमेनं भस्मसात्करिष्यसि ततखटिति प्रस्फुटिताल्लिङ्गात्तडिज्जात्कार इव पूर्व ज्योतिर्निर्गतं, ततोऽप्रतिमा श्रीपार्श्वनाथप्रतिमा प्रकटीबभूव, विस्मितो विक्रमार्कः पृच्छति स्म - महानुभाग ! किमिदं अदृष्टपूर्व ?, कोऽयमपूर्वी देवः प्रादुरास ?, गुरुर्जगौ- जगत्रयीकृत सेवः स एष देवाधिदेवः श्रीधरणेन्द्रकृताद्भतस्फटाडम्बरः श्रीपार्श्वजिनेश्वरस्त्रयोविंशस्तीर्थङ्करः, एष एव देवः स्तुत्यादि मदीयं सहते, एतत्सम्बन्धमवधा रयतु धराधिपतिः - " पूर्वमस्यामेवावन्त्यां श्रेष्टिनीभद्रापुत्रो द्वात्रिंशत्पत्नीयौवनपरिमल सर्वस्वास्वादलालसाथ सलतुलामालम्बमानो अवन्तीसुकुमाल इति ख्यातः श्रेष्ठचासीत् स शाळीभद्र इवामुद्रभोगरससमुद्रनिलीनो न चकार गृहव्यापारमयमपि, किन्तु मातैव सर्वां गृहन्ति चक्रे, अन्यदा मौर्यवंशधुर्यः श्री आर्यमुहस्त्याचार्यः सम्पतिनृपतिप्रतिबोधविधाता गच्छयुतो विहरंस्तत्रागत्य भद्रानुमत्या तदावासास वाहनकुट्यां तस्थिवान् अन्येद्यः प्रदोषसमये सूरिभिः परावर्त्त्यमानं नलिनीगुल्माभिधानमध्ययनं कर्णरसायनं समाकर्णयन् सकर्णः सप्तभौमसौधादुत्तीर्य वसतिद्वारमागतः सञ्जातजातिस्मृतिर्गुरुपार्श्व गत्वा नत्वा चोवाच भग वन् ! भद्रातनयोऽहं नलिनीगुल्मविमाननिस्समानर्द्धिमनुभूतपूर्वी पूर्वभवो जातिस्मृत्या स्मृततत्सुखः संसाराङ्मुख तत्रैव गन्तुमत्युत्सुकोऽस्मि, भदन्त ! भवन्तस्तत्रभवन्तः किन्नु नलिनीगुल्मविमानादाजग्मिवांसः ?, कथमन्यथा जानीय सम्यग् तत्स्वरूपं, तैरुवे - सर्वज्ञप्रणीत सिद्धान्तवचनाज्जानीमः, तेनोक्तं तर्हि केनोपायेन सपदि तत्माप्यते ?, आचार्याः मोचिरे चारित्रेण, परं मुकुमारोऽसि, दुवरं च चारित्रं, यतः - " मुखादा लोहचणकाः, सुस्पर्शा वह्नयोऽपि हि । दुष्करं तु जिनोर, तपोऽती For Private & Personal Use Only सफर व्यञ्जनान्यथात्वे सि० ॥२५॥ ww.jaintelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy