________________
अनुग्रहार्थ तत्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ॥१॥” प्रज्ञावन्मुनीन्द्रयोग्यानि चतुर्दशापि पूर्वाणि संस्कृतान्येव श्रूयन्ते, तदेवमुक्तिमात्रादपि मात्रातिगजिनेन्द्राद्याशातनाकरणात् यद् प्रायश्चित्तं स्यातद्विमृश्य सद्यः प्रपद्यध्वं, तन्निशम्य सम्यक् सजातात्यन्तिकपश्चात्तापभूरयः सूरयः प्राहुः-धिग्मामविमृश्यभाषिणं जिनाद्याशातनाकारिणं पाराश्चिकमायश्चित्तमापन्नं, यद्यप्यदः प्रायश्चित्तं सम्प्रति ताहसंहननादिबलाभावाद् व्युच्छिन्नं तथापि यथाशक्ति द्वादशवार्षिकं पाराश्चिकं नाम प्रायश्चित्तं गुप्तीकृतरजोहरणमुखपोतिकादिजैनलिङ्गः प्रकटीकृतावधूतरूपः कृतमौनः सुदुस्तपतपस्तपनोयुक्तः सम्यक् संयमयोगोपयुक्तः प्रच्छन्वृत्त्या पाण्डुपुत्ररद् द्वादशवर्षी विहरंश्चरिष्यामि, एवमुक्त्वा सधानुज्ञया गच्छवासं मुक्त्वा जनाज्ञात एव विधिवदामनगरादिषु विहरन् सप्तवर्ण्यन्ते उज्जयन्यां महाकालपासादे समागत्य स्थितो, लोकैः पृष्टोऽपि यदा न किश्चिदाचष्टे तदा तः राज्ञो विज्ञप्त-देव! देवसरके महादेवचै ये कोऽपि वैदेशिकस्तिष्ठति,वादितोऽपि न वदति, परमेश्वरं च न प्रणमति, ततः कुतूहलाक्रान्तः क्ष्माकान्तः श्रीविक्रमादित्यस्तत्रागत्य तं सोचे-करत्वं ?, धार्मिकोऽस्मीति तेनोक्ते नृपः पाह-तहि कथमर्थतो नामतोऽपि महादेवं न वन्दसे ?, सोऽपि जिनमतोन्नत्यर्थपत्यर्थमुत्सुकः किश्चिद्विचिन्त्योचिवान्-देवायं देवोऽस्मद्वन्दनस्तवनादिकं ज्वरादितो मोदकास्वाद मिव सर्वथा न सहते, राज्ञोत्तम्-भोः! किमिदमसम्बद्धं भाषसे ?, तेनोक्तम्-जातु मतिमोपद्रवे मा भवतामप्रीतिस्फीतिभूदिति शङ्कमानोऽस्मि, नृपः माह-मा शतिष्ठाः, कुरुष्व नमस्कार स्तुतिसारं, ततः तेन 'स्वयम्भुवं भूतसहस्रनेत्रमनेककाक्षरभावलिङ्गम् । अध्यक्तमच्याहत विश्वलोकमनादिमध्यान्तमपुण्यपापम् ॥१॥ इत्यादिकाः द्वात्रिंशद्वात्रिंशिकाः श्रीवर्द्धमानजिनेन्द्रगर्भाः सुसंदर्भा महार्थाःप्रथयामासिरे,तथाप्यधिष्ठायकसानिध्याभवनेन दुष्पमासमयेऽप्यप्रतिममहिमश्रीपार्वजिनेश्वरस्तुति कल्याणमन्दिरेत्यादिकां चतुश्चत्वारिंशवृत्तमयीं विदधे, तस्याश्चैकादशत्तविधानाक्सरे ग्रन्थान्तरे तुप्रथमद्वात्रिंशिकामथमकाव्यो
Jain Education Interional
For Private & Personal use only
imr.jainelibrary.org