________________
निजतनुजयोः प्राग्भवे पृष्टे ज्ञानिना यथास्थिते आदिष्टे स्वाशयेऽनुशयं सातिशयं प्रकाशयता सुकृतैकचित्तेन देवदत्तेन स्वकदु
कर्मक्षयोपायमादिशेति विज्ञप्तो ज्ञानी न्यगादीव-इहो उपधानवाहिनां नमस्कारादिमूत्रपाठिनां चाशठतया विनयावर्जनभोज| नविश्रामणादिवैयावृत्यादिभिः सर्वाङ्गीणभक्तिपोषं संलग्नोपवासाचामाम्लादिदुस्तपतपोभिः स्ववपुःशोपं च महर्षिरिव यदि करिष्यसि तदैव इदं दुष्कर्म क्षयं यास्यति, न खन्यथा, यत्परमर्षयः-" पावाणं च खलु भो ! कडाणं कम्माणं पुद्धिं दुच्चि माणं का दुप्पडिकंताणं वेइत्ता मुक्खो, नत्थि अवेइत्ता, तवसा वा झोसत्ता" इति, तथा “ अनिआणस्स विहीए तवस्स तविअस्स किं पसंसामो ?। किन्जइ जेण विणासो निकाइआणपि कम्माणं ॥१॥" ततस्तेन महेभ्यपुत्रेणापि शिशुनाऽपि सुखिनाऽपि च तत्तथैवाशेष सविशेष बहूनि वर्षाणि सोत्साहतयैव विदधे, ततस्तत्कर्म निविडमपि काष्ठमिव प्रगुणघुगगणयोगे शनैः शनैरनिविडीभूतं, तदनु महानिशीथोक्तमुख्यविधिनैव स सावधानमना उपधानवहनपूर्व नमस्कारादिसूत्राणि पापठीति स्म, एवं प्राकृतदुष्कर्मणि सर्वथा क्षीणे समग्रशास्त्रपारीणतया देवदत्तोऽपि गुरुदत्तोपमिति प्राप्नोति स्म, तद् दृष्ट्वा जातश्रद्धाः प्रायः सर्वेऽपि श्राद्धा उपधान विधिमाराधयन्ति स्म, ततस्ताभ्यां परमाईताभ्यां तथा ज्ञानमाराधयामाहे यथा तद्भवेऽपि द्रव्यदीक्षाकक्षीकारमन्तरेणापि केवलज्ञानमवाप्य सिद्धिसौधमध्यासामाहे, इत्थमुपधानाराधनानाराधनयोः फलमाकलय्य प्रमादमवगणय्य तदाराध-2 नविधौ सम्यगुद्यम्यं, इति श्राद्धोपधानविषये ज्ञातं । इतिव्याख्यातश्चतुर्थ उपधानाचारः॥४॥
तथा-गृहीतश्रुतेन गुरुश्रुतादेरनिवः कार्यः, यस्य सकाशेऽधीतं स एवाप्रसिद्धोऽपि जातिश्रतादिहीनोऽपि गुरुतयावाच्यो, नतु स्वस्य गौरवार्थ प्रसिद्धो युगप्रधानादिरन्यः, यावद्वाश्रुतमधीतं तावदेव वक्तव्यं, न खधिकमूनंवा, मृषाभाषाचित्तकालुष्यज्ञानातिचाराधापत्तेः, गुर्वाद्यपलापस्य महापापत्वं लोकेऽप्युक्तम्-"एकाक्षरपदातारं, यो गुरुं नाभिमन्यते । श्वानयोनिशतं गत्वा, चाण्डा
For Private & Personal use only
Jain Education Intern
O
nelibrary.org