________________
पृथक् स्मर्यते तदाऽन्यः श्रुतस्कन्धः, महानिशीथस्य चान्यश्रुतेभ्यो विशिष्टतरश्रुतत्वं दृश्यते, तद्योगस्य संलग्नपश्चचत्वारिंशदाचामाम्लरूपस्यागाढस्यान्ययोगेभ्यो दुस्तपतपोरूपत्वेनोत्कृष्टत्वात् । एवं सत्यपि ये महानिशीथस्य प्रामाण्यं न मन्यन्ते न विद्मरतेषां का गतिः? , श्रुतापलापस्य महापापहेतुत्वात्, न च तस्य श्रुतत्वमेव सन्दिग्धमिति मुग्धबुद्धिभिरभिधेयं, नन्दिसूत्रपाक्षिकसूत्रादौ ' निसीह महानिसीह मिति साक्षात्तस्योक्तत्वात, न चेदं तन्न भवतीत्यपि वाच्यं, तथा सति श्रीआचारागौपपातिकादिग्रन्थानामध्यधुना वर्तमानानां नन्दिसूत्राद्युक्तेभ्योऽन्यत्वपसङ्गो दुनिवारः, एवं चासमीक्ष्यभाषणेन आशातनाकारिणां जिनादिष्वपि यत्तद्वचनीयतायां न कश्चिदविषयः। किश्च-येऽप्यनन्तसंसारदुस्सहदुःखेभ्योऽप्यभीरुतया कदाग्रहात् महासाहसिकतामवष्टभ्य महानिशीथं न प्रमाणीकुर्वन्ति तैरपि उपधानतपः प्रतिपत्तव्य, चतुर्दशपूर्वधरश्रीभद्रबाहुस्वामिमणीत-18)
श्रीदशबैकालिकनियुक्त्यादौ 'काले विगए बहुमागे उपहाणे' इति गाथायामनन्तरोदितायां तस्य साक्षादुक्तत्वात्, समवाKa याङ्गेऽपि उपासकदशाडूगस्वरूपप्ररूपणाधिकारे साक्षादेव श्रावकाणामुग्धानान्यभिदधिरे, यथा-" उबासगाणं च सीलबय
वेरमणगुणपञ्चक्खाणपोसहोववासपडिवजणयाउ मुअपरिग्गहा तवोवहाणाई परिमाओ" इति । अत्र वृत्त्येकदेशो यथा-" श्रुतपरिग्रहास्तपउपधानानि प्रतीतानि ।" व्यवहारवृत्तावपि यथा-" श्रुतग्रहणमभीप्सता उपधान कार्यमिति । यैश्च श्राद्धानामुपधानविधिन मन्यते तैः साधूनां योगविधिः किमिति मन्यते ?, श्राद्धवत्साधूनामपि योगोदहनं विनापि मूत्रपाठादिशु
यापत्तेः, ततः कदाग्रहग्रहग्रस्ततां परिहृत्य सिद्धान्तमार्गानुयायितां चानुसृत्य यथोक्तमहाश्रतरकन्धाध्ययनादिपरिभाषोपेतनमस्कारादिसूत्राराधनाहेतुभूतान्युपधानानि जिनवचनप्रामाण्यात प्रमाणतया प्रतिपत्तव्यानि । महानिशीथे चोपधानतपो विना नमस्कारादिसूत्रपठनादि निषिद्धं, सम्पति तु द्रव्यक्षेत्रकालाद्यपेक्षया लाभालाभ विभाव्याऽऽचरणयोपधानतपो विनाऽपि
For Private & Personal Use Only
Jain Education In
EMw.jainelibrary.org