________________
जिनदत्तो मान्य एवाभृत् श्रीमतां, तथा सर्वैरपि तपोगच्छसंतानीयैर्मान्य एव स इति, परं तदपकर्णनीयमेव, यतो जिनदत्तः चेत् सूत्रानुगश्रद्धाकस्तर्हि श्रीमद्भिः साक्षितया न धृतोऽपि मान्य एव, अन्यथा शासनविरोधिनं का प्रवचनानुसारी भवभीरनियेत् तं, यतः साक्षितया ग्रन्थानां धरणं न स्वसंमतानामेव, तथात्वे श्रीवीरप्रभुप्रभृतीनां वैदिकत्वाद्यापत्तेः, तैः तत्तदन्थानां साक्षिसयोन्नयनात, प्रवचनविरोधिता च जिनविम्बस्य स्त्रीपूजानिषेधेन मासकल्पव्युच्छेदाभिधानेन श्रावपतिमावहनोत्सादनाप्रकटनेन लौकिकलोकोत्तरमिथ्यात्वपोषकत्वेन च तत्कुलकाभिहितेन सम्यग्दृशां स्पष्टव प्रतीता, आचार्यपदमपि तस्य जिनवल्लभस्येव प्राक्तनकालमृतगुरोः प्रचुरवर्षातिक्रम एवेति खरैरेव घुष्टमिति न कथमपि वचसाऽपि सम्यगदृशां शंसनीयः, अतो यः कश्चिद् पुरस्कृत्यैनं ग्रन्थं तिरस्कर्ता शासनधुरन्धराणां स गेहेनर्दीव तिरस्कृतो बोध्यः, श्रीमतां गुरुभिरपि श्रीमद्भिर्मुनिसुन्दरमरिवर्यैः स्त्रीपूजादिनिषेधक उक्त एवानन्तसंसारीति न शासनधुर्याणां नूत्ना प्ररूपणा, न ह्यसत्यपोषणाभिरतानां कापि सम्यग्मार्गानुसारितेवि सर्वपार्षदमिति ।
यथावत् प्रस्तुतग्रन्थस्य विषयावगमस्तु विषयानुक्रमादेवावसोयते इति नात्रोद्यतितं । श्रीश्रीपालचरितगुणस्थानक्रपारोहादिसंदृब्धारः श्रीरत्नशेखराः श्रीवज्रसेनसरिपद्वधरा इति अन्य एव ते।
श्रीपार्श्वपादाब्जयुगेन दी। मरुस्थले सारिपत्तनेऽत्र।
alba
For Privale & Personal use only
ilanesbrary.org