________________
यद्यपि श्रीमन्तः श्रीप्रभूणां मुनिसुन्दरसूरिवर्याणां पट्टे प्रतिष्ठितास्तथापि श्रीमतां प्रतिबोधका गुरवः श्रीमन्तो यतिजीतकल्पविवरीतारः साधुरत्नाः साधुधुर्याः, अध्यापकाश्च श्रीमन्तो महाऽविद्याविडम्बनक्षममहाविद्याविडम्बनवृत्तिविधातारो अन्वर्थाभिधानाः श्रीभुवनमुन्दराः, यत आहुः स्वयमेव प्रशस्तौ
“ यतिजीतकल्पविकृतश्च पश्चमाः साधुरत्नसूरिवराः ।
यैर्मादृशोऽप्यकृष्यत करप्रयोगेण भवकूपा ॥६॥ तथा श्रीभुवनसुन्दरमूरीणां वर्णने च
'यज्ज्ञाननिधि मदादिशिष्या उपाजीवन् ॥ १७ ॥
तदेवं श्रीमुनिसुन्दरसूरिपट्टाधिपा श्रीसाधुरत्नमूरिवरदीक्षिताः श्रीभुवनसुन्दरमूरिभिरध्यापिताश्च श्रीमन्तो रत्नशेखरसूरयः प्रस्तुतग्रन्थसौधसूत्रणमूत्रधारा इति निश्चितं ।
विषयश्चात्र ज्ञानाद्याचारपञ्चकरूप इति प्रागभ्यधाय्यत्र, यद्यपि ज्ञानाद्याचारा न स्वमनीपोनीताः किंतु श्रीनिशीथभाष्यचूर्योः श्रोदशवैकालिकनियुक्तौ तद्वत्तौ च प्रत्नकालीनः मूरिवय विस्तरेण ते विषयतयोद्घाटितास्तथापि बालानां कान्तासंमितवाक्यजनितबोधानां प्रस्तुत एवं अन्य उपयोगी,यतोऽत्र प्रत्याचारं प्रत्याचारभेदं च स्वरूपान्वाख्यानं विहितं तदनु यथायथं कथानकानि सर्वेष्ववान्तरभेदेषु प्रकटितानीति आचारपञ्चकमभिबुभुत्सूनामावश्यकोऽयं ग्रन्थ इति स्पष्टमेव ।।
अत्र कटुरसननिपुणरसनः खरो स्टति यदुत श्रीमद्भिः रत्नशेखरमूरिभिः श्रोजिनदत्तः साक्षितया ग्रन्थद्वारा धृत इति
Jain Education
national
For Privale & Personal Use Only
www.jainelibrary.org