________________
आ०प्र० ज्ञानाचार॥१६॥
सत्कृतः, द्वितीयो गुरुं प्रति रुष्टः सन्नाचष्ट-निरुपमज्ञानदृशा सर्व विदन्तोऽपि भवादृशा अपि सुविनीतयोरपि स्वशिष्ययोयद्येवमन्तरं कुर्वन्ति तदा किं कस्य कथ्यते ?, कस्याग्रे चैतदुपालम्भमदानमपि प्रथ्यते?, यद्यमृतांशोरप्यङ्गारदृष्टिः सहस्रांशोरपि तमःसृष्टिः दैवततरोरपि दारिद्यकथा चन्दनतरोरपि दुर्गन्धप्रथा अमृतादपि विषावेगोद्रेकः सज्जनादपि दौर्जन्यातिरेकः सद्यादपि मान्धसम्भवः पानीयादपि च प्रदीपनप्रभवः स्यात्तदा कस्य दोषो दीयते ?, गुरुणोक्तं-कस्मादेवं ब्रूषे ?, न हि मया त्वं विद्याप्रदानाम्नायकथनादौ कापि वञ्चितोऽसि, तेनोक्तम्-तहि कथमनेन मार्गे हस्तिन्यादिस्वरूपं सम्यग ज्ञातं न तु मया ?, गुरु
गौ-हहो सद्बुद्धे ! कथय कथं त्वयेदं सम्यग् विदितं ?, सोऽप्यूचे-तव प्रसादादेव तथा तथाऽभिज्ञानविमर्शादिना, तत्र हस्तिनी कायिक्यभिज्ञानेन वामाक्षिकाणत्वं दक्षिणत एवान्तराऽन्तरा मुखं प्रक्षिप्य तृणभक्षणेन, स्त्रीपुंसौ कायिक्यभिज्ञानेनैव, आसन्नप्रसवत्वं हस्तद्वयावष्टम्भोत्थानेन, तरुलग्नतन्तुभिः परिधानवस्वरय रक्तत्वं, पुत्रोत्पत्तिसम्भवः स्त्रिया दक्षिणचरणगौरवस्य मार्ग ज्ञायमानत्वेन । वृद्धापुत्रस्य गृहागमनं तु घटस्य भूमेरूत्पन्नस्य भूमे मिलनेन। तदप्रतिमप्रतिभाप्रमुदितेन गुरुणा न्यगद्यत द्वितीय:वत्स ! विविधविनयकरणेऽपि तव मयि तागू बहुमानो न, एतस्य तु सम्यग् बहुमानः, वैनयिकीबुद्धिश्च सम्यग्बहुमानगर्भविनयादेव स्फुरति, ततो ममात्र न कश्चिद्दोषः ॥ इति विनयबहुत्वेऽपि बहुमानाबहुमानदृष्टान्तः॥
स्वल्पेऽपि विनये बहुमानेन फलप्राप्तौ दृष्टान्तो यथा-कापि गिरिनिर्झरे शिवमूर्तिः सप्रत्यया, तां द्विजः शुचिश्चन्दनपुष्पायैबहुभक्त्यार्चति, पुलिन्द्रस्तु धनुःशरव्यग्रैककरश्चरणेन प्राक्तनपूजामपास्य निरुपचारं गण्डूषजलेनाच्छोट्य बिल्वपत्रैरर्चति, शिवश्च मौग्ध्यात्ताग्विनयं कर्तुमजानानस्य तस्य हार्दबहुमानादेव तुष्टरतेन सह कुशलप्रश्नाद्यालापं कुरुते, द्विजोऽन्यदा तदृष्ट्वा रुष्ट- स्त्वमपीदृश एव नीचोऽसीति शिवमुपालब्धवान् , शिवोऽवादीद्-एष मयि दृढमनुरक्तः, प्रातस्त्वमपि स्वयं ज्ञास्यसि, द्विज
ब. सि०
या १६॥
Jain Education Inclonal
For Private & Personal use only
No. NAw.jainelibrary.org