________________
आ०प्र० ज्ञानाचार. ॥१४॥
इरहरहरहहहहरहरमर
प्रवर्तितव्यं, यतः-" ज्ञानामृतं गुरोः कूपादादातुमतलस्पृशः। धत्ते विनय एवायं, पादावर्त्तप्रगल्भताम् ॥१॥ तथाविणया नाणं नाणाओ दंसणं दंसणाओ चरणंपि । चरणाहिंतो मुक्खो मुवखे सुक्खं अणाबाहं ॥१॥" विनयपूर्वमेव च गृहीतं श्रुतं सद्यः सम्यक् फलप्रदं भवति, न त्वन्यथा, अत्र ज्ञातमिदम्
राजगृहनगरे श्रेणिकनृपोऽन्यदा श्रीवीरमुखज्ञातसतीत्वनिर्णयादिगुणतुष्टश्चेल्लणादेवीमाचष्ट-कं तवान्यराज्ञीभ्यो विशितरं प्रसादं सम्पादयामि ?, तयोक्तम्-एकस्तम्भं मे प्रासादं कारय, राज्ञा तदर्थमभयकुमार आदिष्टः, तेन वर्द्धकय आज्ञप्ताः, ते तद्योग्यविशिष्टकाप्ठार्थमटव्यां भ्रमन्तः सुलक्षणं बहलच्छायमभ्रंलिहं पुष्पितं फलितं महाशाखं महास्कन्धमेकं महामं । दृष्टवा हृष्टाः, चिन्तयाश्चक्रिरे च-नूनमयं सदैवतस्तरुः, यतः-" यादृशं तादृशमपि, स्थानं निर्दैवतं नहि । किं पुनर्लक्षणोपेता, महीयांसो महीरहाः ? ॥१॥” ततस्तच्छेदे माऽस्मत्स्वामिनो विघ्नो भूदिति तदधिष्ठायकाराधनार्थमु पोष्य तद्दिने गन्धधृपमाल्यादिभिरधिवास्य स्वस्थाने गताः, तद्भक्त्या तुष्टस्तदधिष्ठायकसुरो रात्री साक्षाद्भयाभयकुमारायाभिदधे-अहं सर्वर्तुकपुष्पफलममण्डितनन्दनोपमानवनखण्डभूषितं परितः प्राकारपरिक्षिप्तमेकस्तम्भं प्रासादं करिष्यामि, मद्भवनोपरिस्थरतहरयं न छेद्यः, अभयेन तथा प्रतिपन्ने व्यन्तरोऽप्यचिन्त्यशक्तिः सद्य एव यथोक्तं तं विदधे, यतः-"अधिकाः किङ्करेभ्योऽपि, वाग्बद्धा देवयोनयः ।" राजापि केवलसौधार्थी तादृग्वनखण्डमण्डितं तद्दष्ट्वा क्षीरपाणे प्रक्रान्ते शर्करायोगं मेने, ततस्तत्र नृपादिष्टा चेल्लणा पद्मादपद्म पद्मेव सकलकालं लीलायते स्म, अन्यदा तत्पुरवासिन्या एकस्या मातङ्ग्या अकाले आम्रफलदोहद उत्पेदे, विद्यासिद्धस्य स्वपत्युश्चेल्लणोपवनात्तदानयनाय सा सनिर्बन्धमभिदधे, सोऽपि नृपाश बिभ्यदप्यवनामन्या विद्य
वि० श्रे कथा ॥२४॥
Jain Education
ltional
For Private & Personal use only
Ayww.jainelibrary.org