________________
याऽऽम्रशाखां नमयित्वा यथेच्छमाम्राणि गृहीत्वोन्नामन्या विद्यया शाखां पश्चादुनमय्य च स्तेननाशं नंष्ट्वा गृहे याति, तदाह-"न किं कुर्यान किं दद्यात, स्त्रीभिरभ्यर्थितो नरः? । अनश्वा यत्र हेषन्ते, शिरोऽपर्वणि मुण्डितम् ॥ १॥"प्रातचेल्लणया सहकारतरु लूनफलं दृष्ट्वा राज्ञो ज्ञापित, राज्ञा चाभयाय भणितं-यस्येशी शक्तिः सोऽन्तःपुरेऽपि विप्लवं कुर्यादिति तं सप्ताहान्तः स्फुटीकुरु, नो चेत्तव चौरदण्डः, अभयस्तथा प्रतिपद्य स्तेनं सर्वतोऽप्यन्वेषमाणः क्वानि नागरिकादिबहुसमुदाये मिलिते बृहत्कुमारीकथाकथन धिया तं स्तेनं स्फुटीचकार ।
तद्यथा-वसन्तपुरे निर्द्धनजीर्णश्रेष्ठिमुता बृहत्कुमारी सुरूपा स्मरार्थि पुष्पाण्यन्वहं चौरयन्येकदाऽऽरामिकेण धृता, तद्रूपात् क्षुब्धेन प्रार्थिता माह-कुमार्यस्म्यस्पृश्या, यतः-" अस्पृश्या गोत्रजा वर्णाधिका प्रव्रजिता तथा । नाष्टौ गम्याः कुमारी च, मित्रराजगुरुस्त्रियः॥१॥" तेनोक्तम्-तही ढया त्वया पूर्व मत्या आगम्यं, सा तथा स्वीकृत्य गृहे प्राप्ता, क्रमाद् ऊढा निशि स्वपतिज्ञोक्तौ पत्याऽनुमता निर्गता, स्वर्णरत्नाभरणा पयि चौरै रुद्धा, सद्भावोक्तौ सत्यसन्धेयं वलमानाऽनुलुण्टयिष्यते इति मुक्ता, पुरः क्षुरक्षामरक्षसा रुद्धा,तथैव मुक्तामालिकमुपेता, अतिविस्मितेन तेन मातृवत्लणता मुक्ताच,व्याघुटन्ती तथैव रक्षसा चौरैश्च मुक्ता, सम्यगुक्त्या पत्युर्मान्या जज्ञे, इति कयां कथयित्वा अभयो जनान् पप्रच्छ-हे जना ! एषु कश्चतुर्यु दुष्करकारकः ?, तालुभिः पोचे-पतिः, क्षुधातुरै रक्षः , जारैर्मालिकः, चूतचौरेण तु चौरः, स तदैवाभयेन धृत्वा पृष्टः सद्भावं पोचे, तथापि राज्ञा रुष्टेन वधादेशे दत्ते अभयेनोक्तम्-एतस्माद्विद्याद्वयमपूर्वं पूर्व गृह्यतां तदनु यथार्ह कार्य, यतः"बालादपि हितं ग्राह्यममेध्यादपि काश्चनम् । नीचादप्युत्तमा विद्या, स्त्रीरत्नं दुष्कुलादपि ॥१॥" ततो राजा सिंहासनस्थ एव मातङ्गं पुर उपवेश्योनामन्यवनामनीरूपं विद्याद्वयं पठितुमारेभे, परं बहुवारं पाठेऽपि यदा हृदि कथमपि न तिष्ठति
Jain Education Inten
For Privale & Personal use only
R
ainelibrary.org