________________
पहेणयस्स अग्यो न तीरए काउं । तरसेव अथक्कर णामिअरस गिव्हतया नत्यि ॥ २॥ 'पहेणयस्स'त्ति पथ्यदनस्य 'अथकपणामिअस्स'त्ति अनवसरदत्तस्य । करचुलुअपाणिएणवि अवसरदिण्ण मुच्छि जिअइ। पच्छा मुआण सुदरि! घडसयदिण्णेण किं तेण ? ॥३॥ कृषिवाणिज्यसेवाद्यपि काल एव कृत बहुफलं, न त्वन्यथा, उक्तमपि-"कालंमि कीरमाण किसिकम्मं बहुफलं जहा भणिों । इअ सबच्चिअ किरिआ निअनिअकालंमि कायदा ॥१॥” मन्त्रविद्यादिसाधनमपि यथोक्तकाले एव सफलमन्यथा वनर्थहेतुरपि स्यात् । तदेवं काले स्वाध्यायः कार्यों, न त्वकाले, अत्र तक्रघटदृष्टान्तो यथामथुरायामेकः साधुः पादोषिकं कालं गृहीत्वाऽतिक्रान्तायामपि पौरुष्यां कालिकश्रुतमनुपयोगात् पठति, मैतं प्रान्तदेवता छलयेदिति तहोधार्थ शासनदेवता तक्रघट लात्वा तत्पुरस्तादाभीरीरूपेण 'तक्रं विक्रीयते २' इत्युद्घोषन्ती गतागतानि कुर्वाणा तेनर्षिणा स्वाध्यायव्याघातकर्तीति भणिता-कोऽयं तक्रविक्रयकालः ?, तयोक्तम्-तवापि कोऽयं कालिकस्वाध्यायकालः ?, ततः साधुरुपयुक्तो मिथ्यादुष्कृतं ददौ । इति व्याख्यातः प्रथमः कालाचारः १॥
तथा विनयो-गुरोर्ज्ञानिनां ज्ञानाभ्यासिनां ज्ञानस्य ज्ञानोपकरणानां च पुस्तकपृष्ठकपत्रपट्टिकाकपरिकास्थापनिकाउलिकाटिप्पनकदस्तरिकादीनां सर्वश्कारैराशातनावर्जनभक्त्यादिर्यथाई कार्यः, आशातनाभेदाश्चास्मत्कृतश्राद्धविधिसत्तेयाः । तत्र गुरोर्ज्ञानिनां च व्यक्त्या विनयोऽभ्यु थानासनदाननिषद्यादण्डकग्रहणपादधावन विश्रामणावन्दनादेशकरणशुश्रूषणादिरूपः, यदार्षम्-“अब्भुट्टाणंजलिकरण, तहेवासणदायणं । गुरुभत्ति भावसुस्मुसा, विणओ एस विआहियो॥१॥ तथा-नी सिर्ज गई ठाणं, नीअंच आसणाणि आनीअंच पाए वंदिजा, नीअंकुज्जा य अंजलिं ॥२॥ 'भावसुस्मुस'त्ति भावेन शुश्रूषा-तदादेशं प्रति श्रोतुमिच्छा पर्युपासना वेति श्रीउत्तराध्ययनवृत्ती व्याख्यातं, श्रीदशवकालिकवृत्तौ तु शुश्रूषणाविनय एव दशधैवं प्राक्तन
फहरायपहारहारमहरहस
पर
Jain Education int
o nal
For Private & Personal use only
Haiww.jainelibrary.org