SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आ०प्र० ज्ञानाचार. ॥१२॥ धननाशश्च, स्वाध्याये मरणं भवेत् ॥२॥ ततः सन्ध्यासु स्वाध्याये एते सर्वज्ञपुत्रत्वमात्मनि रव्यापयन्तोऽप्येतावदपि न | जानन्तीति लोकेऽपि गर्दा स्यात् , तथा सन्ध्यासु स्वाध्यायव्यग्रत्वे साधोरवश्यकार्य प्रतिक्रमणादौ श्राद्धस्य देवपूजापतिक्रमणादावनुपयुक्तत्वं स्यात, तदकरणे तु तत्रोपयुक्तचं निरन्तरस्वाध्यायखिन्नानां विश्रामश्च तदा स्यातां, ततः श्रुतपाठादि | उक्तकाल एव कार्य, विशेषकारणैस्तु कालव्यत्ययेऽपि न दोषः, तथा निशीथादौ अनुज्ञातत्वात् । ननु यथा शुभध्यानं सर्वकालमपि मोक्षहेतुत्वेनोक्तं तथा कि न श्रुतज्ञानमपि ? तस्यापि मोक्षहेतुत्वात् , मोक्षहेतोश्च कः कालः कश्चाकाल: १, सत्यम् , परं शुभध्यानं सर्वधर्मक्रियानुगं मानसिक च, न हि तेन काचिद्धर्मक्रिया बाध्यते, किन्तु सर्वापि प्रत्युत पोष्यते, तेन तस्य सावकालिकत्वं युज्यते, श्रुतज्ञानं तु पठनगुणनादिसाध्यं द्विसन्ध्यावश्यकादिवन्नियतकाले एवोचितं, तस्यैव सर्वकालं पाठाद्यभ्यासेऽन्यान्यपुण्यक्रियाबाध एव स्यात् , न च तथा युक्तम् , अन्योऽन्यावाधयैव तासामुक्तत्वाद्, उक्तं च श्रीओपनियुक्तौ-"जोगो जोगो जिणसासणंमि दुक्खक्खया पउंजतो । अन्नुन्नमबाहाए असवत्तो होइ कायवो ॥१॥"न च मोक्षहेतुत्वे कालविभागस्यायुक्तत्वमाहारविहारादीनां साधोर्मोक्षहेतुत्वेऽपि कालविभागस्योक्तखाद्, यदागमः-'तइआर पोरिसीए, भत्तपाणं गवेसए । तथा-अकाले चरसि भिक्खू , कालं न पडिलेहसि । अपाणं च किलामेसि, संनिवेसं च गरिहसि ॥१॥ तथा-विहारो उडुबद्धे न वासासु, अहवा दिवा न राओ, अहवा दिवसओऽवि तइआए न सेसासु" इति निशीथचूणो । लोकेऽप्युक्तम्-याममध्ये न भोक्तव्यं, यामयुग्मं नलकूपयेत् । याममध्ये रसोत्पत्तियुग्मादूर्ध्व बलक्षयः॥१॥ ग्रीष्महैमन्तिकान् मासानष्टौ भिक्षुर्विचामेत् । दयार्थ सर्वजीवानां, वर्षास्वेकत्र संवसेत् ॥२॥ दानाद्यपि काले विशेषफलं, यत:-पहसंतगिलाणेसुं आगमगाहीसु तह य कयलोए । उत्तरपारणगंमि अ दिण्णं सुबहुप्फलं होइ ॥१॥ काले दिण्णस्स ॥१२॥ Jain Education Intern a l For Privale & Personal use only Alainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy