SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ संवादतोऽभवत् । पृथ्वीपालनृपः शास्त्रेष्वमानबहुमानवान् ॥ २३६ ॥ अज्ञानास्त्राणि शास्त्राणि, शृण्वतस्तस्य सादरम् । धीधर्माराधने जज्ञे, किं हि ज्ञानान्न सम्भवेत् ? ॥ २३७ ॥ दर्श दर्श दर्शनिनां, स धर्मानसधर्मणः। सम्यकपरीक्षावीक्षातः, प्रपेदे धर्ममार्हतम् ॥ २३८ ॥ धर्म परिणतिस्तस्य, क्रमाजज्ञे यथा यथा। तथा तथा श्रुतज्ञानबहुमानः स्म वर्द्धते ।। २३९ ॥ स श्रुतश्रुतिपाठादौ, तथा तन्मयतामधात् । यथा मुस्फीतसङ्गीतरसेऽपि विरसोऽभवत् ॥२४०॥ बहुश्रुतबहुमानोपष्टम्भस्पष्टना-22 दिना । लेखनोद्यापनाद्यैश्चाराधयामास स श्रुतम् ॥२४॥ एवं श्रुताराधनेन, साधनेन शिवश्रियः। साधयामास दुस्साधमपि दुष्कर्मणां क्षयम् ॥२४२॥ श्रुतार्थ भावयन्नुच्चैश्चित्तैका ग्रयेण कर्हिचित् । आरूढः क्षपकश्रेणि, निःश्रेणि शिवसद्मनः॥२४३॥ तदैव केवलालोकं, लोकालोकप्रकाशकम् । स लेभेऽस्य विलेभेच, ऋषिवेषः सुपर्वभिः ॥ २४४ ॥ सोऽनुभूतस्वदृष्टान्तस्पष्टनाद्युपदेशतः। श्रुतज्ञानाराधनायां, सावधानान् व्यधादहून् ॥ २४५ ॥ प्रतिबोध्य प्रतिबोध्य, प्रतिबोध्यानितीह सः। चिरं विहारविधिना, विजहार परम्पदम् ॥२४६॥ इति श्रुतादौ बहुमानमात्रात्, मात्राव्यतीतं किल तद्भवेऽपि । विभाव्य भव्याः! फलमेतदाराधनाविधाने प्रयतध्वमुच्चैः॥ २४७ ॥ ॥ इति श्रुतज्ञानाराधने पृथ्वीपालभूपालकथा ॥ श्रुतज्ञानाचाराधनं च सम्यग्ज्ञानाचाराचरणचातुर्ये सत्येव सङ्गच्छते, ज्ञानाचारश्चाष्टधा, यदुक्त श्रीनिशीथभाष्यपीठादौ"काले १ विणए २ बहुमाणे ३ उवहागे ४ तह य णिण्हवणे ५ । वंजण ६ अत्थ ७ तदुभए ८ अट्टविहो नाणमायारो ॥१॥" तत्र काले-मूत्रपौरुष्यां सूत्रं पठनीयं गुणनीयं वा अर्थपौरुष्यां त्वर्थः उत्कालिकश्रुतादि वा, कालिकश्रुतमुत्तराध्ययनाचाराङ् For Private & Personal use only JainEducation Meanw.jainelibrary.org.
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy