SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ एवं सत्यपि जीवतु जगतीजीवातुरेष चिरकालम् । अन्यस्यापि विरूपं न प्रार्थ्य किं पुनर्नृपतेः ॥१७॥ स्वकदुष्कर्मविनिर्मितमेतद्धि न चात्र कोऽपि दोषोऽस्य । नो चेददः परीक्षां विनैष दक्षः कथं कुर्यास? ॥१८॥ तदुक्तम्-" सदो पुवकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु अ निमित्तमित्तं परो होइ ॥१९॥" बलवति कर्मणि मर्मणि कुतोऽपि घातो ह्यचिन्तितो लगति । न प्राणस्वाणं न च नाधारश्चात्र न विचारः ॥२०॥ स्वककर्मनिर्मितिक्शात्तद्यद्भाव्यं तदावयोर्भवतु । भूयादयं शुभंयुः सर्वं पर्याप्तमियतैव ॥२१॥ इति वार्तितं तयोगथो यथावन्न्यवीविदन् नत्वा । नष्टचराः स्पष्टगिरा नराधिपं प्रापिवांश्च मुदम् ॥ २२ ॥ तुष्टः पुष्टप्रतिभः स्फुटयन् पटुतां क्षणान्तरे स्वतनोः । बहुबहुमानप्रकटनपूर्वकमुर्वीश्वरः स्वपुरः ॥ २३ ॥ आकार्य कार्यपारम्पर्यमुदीर्यधीश्च सत्कार्य । विससर्ज तौ प्रमुदितौ सत्पकृतिफलं बदः सकलम् ॥२४॥ युग्मम् । आद्यस्य श्लोकपदस्यार्थमिति क्षितिपतिः परीक्षितवान् । अपरस्यापि परीक्षितुमुपक्रमं सोऽक्रमं कृतवान् ॥ २६ ॥ कौचन नीचप्रकृती कृत्रिमबहुमानतस्ततः कृतवान् । मन्त्र्यादेरपि मान्यौ सन्मान्यौ जन्यजनको द्वौ ॥ २६ ॥ प्राग्वत्कृत्रिमतीब्रामयान प्रकाश्याथ काश्यपीपतिना । तौ श्रावितौ कदाचित् स्वस्यान्त्यावस्थिति स्वचरैः ॥२७॥ तावथ मिथश्चकथतुः स्वप्रकृतेरुचितमनुचितप्रकृती । श्रृण्वत्सु चरेषु रहःसमये ह्यन्तःस्थमुद्भवति ॥२८॥ नृपतिरयं सम्पति चेत् म्रियते क्रियते तदा मुदाऽऽवाभ्याम् । निष्पुत्रस्यास्य सुखं समग्रसाम्राज्यपरिभोगः ॥२९॥ को नानुमन्यते नौ राज्ये यो वा न मन्यते लघु तम् । हत्वा राज्यं कुत्रों राज्ञोऽभिनवस्य रीतिरियम् ॥ ३०॥ जातु न लातुं राज्यं क्षमावहे तर्हि कुर्वहे स्वैरम् । सर्वस्वलुण्टननृपान्तःपुरपौरीपरीभोगम् ॥ ३१॥ Jain Education rational For Private & Personal use only www.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy