SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आ० प्र०) ज्ञानाचार. ॥ २ ॥ Jain Education Inte धर्म्मादिष्टमधर्मादनिष्टमित्यादिशास्त्रवाक्यानाम् । संवादादर्शनतः तस्य न शास्त्रेषु बहुमानः ॥ २ ॥ अपि पुण्यजुषः केsपि हि दौस्थ्याधिव्याधिदुःखिताः सततम् । प्रेक्ष्यन्ते पुण्यमुषस्त्वपरे साम्राज्य सौख्यजुषः ॥ ३ ॥ सोऽन्येद्युर्विद्यामठमशठपढं नष्टचर्ययोपगतः । पाठकपठितं श्रुतवान् श्लोकमिमं श्लोकमिव शुद्धम् ॥ ४ ॥ -'सर्वत्र सुधियः सन्तः, सर्वत्र कुधियोऽधमाः । सर्वत्र दुःखिनां दुःखं, सर्वत्र सुखिनां सुखम् ॥ ५ ॥ तत्सूक्तार्थपरीक्षावीक्षार्थमथैष पृथुगुणैः प्रथितम् । सुपुरुषमतिपरुषतया स्वकपुरुषैः सरुपमाद्वास्त ॥ ६ ॥ त्वत्सूनुना मदान्धंभविष्णुना हस्तिनेव विध्वस्ता । दत्तैकेन मदाज्ञाऽर्गला बलात् मच्चरसमक्षम् ॥ ७ ॥ उद्घोष्य दोषमेवं कृत्रिमकोपं प्रकाशयन्नुच्चैः । चौरमिव चारके तं समुतं प्राचिक्षिपत् क्षितिपः ॥ ८ ॥ विश्वस्तचरांश्च चरान् व्यमुचत् प्रच्छन्नतद्वचः श्रुत्यै । प्राचीकटच्च कपटाद्गाढ तमग्लानिमात्मतनौ ॥ ९ ॥ राज्ञोऽथ वस्तादृग्यादृक् स्यादायुषोऽन्तिमे समये । यद्वा क जीविताशाऽप्यस्मादाकस्मिका तङ्कात् ? ॥ १० ॥ इत्यासन्नचरेभ्यः श्रुतवन्तौ प्रकृतिपरहितौ शोकम् । श्रितवन्तौ स्रुतवन्तौ तौ भृशमणि निर्झरवत् ॥ ११ ॥ हृद्गतकथाse मिथः कथयामासतुरिमौ महीशतनौ । हा किं जातमकस्माद् मा भूदत्याहितं किञ्चित् ॥ दूनावनेन यद्यप्यावामेवं मुधैव सहसैव । अस्मिंश्च कथाशेषे सुखेन नौ स्याच्छुटिर्झटिति ॥ १३ ॥ यस्मादभिनवभूमान् मोक्ष्यति खलु बन्दिवृन्दमखिलमपि । चारकशोधनपूर्वं ह्यभिनवराज्योत्सवो भवति ॥ १४ ॥ न त्वन्यथा च्छुटिकथा कथमपि नौ दृश्यतेऽतिकुपितोऽयम् । आज्ञाभङ्गाक्षेपी को वेद कथं कदर्थयिता १ ॥ १५ ॥ उक्तं हि - “ आज्ञाभङ्गो नरेन्द्राणां महतां मानखण्डना । वृत्तिच्छेदो द्विजातीनामशस्त्रो वध उच्यते ॥ १६ ॥” १२ ॥ For Private & Personal Use Only RISISISIRISSARARAS ॥ २ ॥ www.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy