SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ हणादौ सर्वत्र भाविनमनर्थ पूर्व वेत्ति तदा कयं तत्र प्रवत्त ?, तेष्वेव च भोजनादिषु शकितानर्येषु यदि भाविनी स्वेष्टसिद्धिं वेत्ति तथा कथं न प्रवर्त्तते ?, तदाह-" अज्ञानं खलु कष्टं द्वेषादिभ्योऽपि सर्वदोपेभ्यः । अर्थ हितमहितं वा न वेत्ति येनाहतो जीवः ॥१॥ अप्रयत्नः प्रदीपोऽयमादित्यो नित्यमुद्गतः । तृतीयं लोचनं ज्ञानमचौर्यहरणं धनम् ॥ २॥ पावाओ विणिवत्ती पवत्तणा तह य कुसलपक्खंमि । विणयस्स य पडिवत्ती तिमिवि नाणे समप्पिति॥३॥" तत्त्वश्रद्धानरूपदर्शनायपि ज्ञाने सत्येव प्राप्यते, आप्तोपदेशादिना हि यावत्तत्वं ज्ञातं न स्यात् तावत्कथं श्रद्धातुं शक्यं ?, यत्परमार्षम्-" नाणेण जाणई भावे, दंसणेण य सरहे । चरित्तेण निगिण्हाइ, तवेण परिसुज्झई ॥१॥" अत एवादौ ज्ञानाचार उपन्यस्तः ततश्च दर्शनाचारः, दर्शनपूर्वकत्वात्मायश्चारित्रावाप्तेः तदनु चारित्राचारः, चारित्रं माग्य कर्मनिर्जराथै तपस्तप्यमिति ततः तपआचारः, ज्ञानाद्याचारचतुष्के च सर्वशक्त्या यतनीयं न तु क्वापि वीर्यमपहवनीयमिति पञ्चमो वीर्याचारः। एवं च ज्ञानस्य परमोपकारित्वात् ज्ञानेष्वपि श्रुतज्ञानस्य मुख्यत्वेनोक्तत्वात् तदाराधनाय सर्वशक्त्या यतितव्यं, यतः"जइविहु दिवसेण पयं परिज पक्खेण वा सिलोगई । उज्जो मा मुंचसु जइ इच्छसि सिक्खिळ नाणं ॥१॥" शास्त्रं च सर्वमपि सम्यग्दृष्टिपरिगृहीतं श्रुतज्ञानमेव, यदाहुः-"व्याकरणच्छन्दोऽलङ्कृतिनाटककाव्यतर्कगणितादि । सम्यग्दृष्टिपरिग्रहपूतं जयति श्रुतज्ञानम् ॥१॥" आस्तां च शास्त्रं दुरे, श्लोकादिमात्रमपि महते गुणाय, यतः-रश्मिव॒षं वाजिनमाशु वल्भा, कुमार्गगं मार्गयतीह यदत् । ज्ञान तथा यद् द्विजमुनराजयवर्षिमुरव्यानयति स्म मार्गे ॥१॥" श्रुतज्ञानाराधनाच केवलज्ञानमपि सुलभ, तद्भवेऽपि पृथ्वीपालनृपस्येव, तत्कया यया पृथ्वीपालः पृथ्वीपालः पृथ्वीपुरे पुरेऽस्ति पुरा।न्यक्षपदार्थपरीक्षणविचक्षणस्तक्षणप्रतिभः ॥१॥ Sain Education For Private & Personal use only
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy