________________
प्रमाणं । अथ शीतोष्णकालयोर्मात्रामाइ-"सीए दवरस एगो भत्ते चत्तारि अहव दो पाणे । उसिणे दवस्स दुन्नि उ तिन्नि व - सेसा उ भत्तस्स ॥२॥" 'शीते' इति शीते काले द्रवस्यैको भागः, चत्वारो भक्तस्य, अथवाशब्दो मध्यमशीतसंसूचनार्थः, ततो मध्यमशीते द्वौ द्रवस्य त्रयो भक्तरय, एवं मध्यमोष्णे काले द्वौ द्रवस्य शेषास्त्रयो भक्तस्य, अत्युष्णे तु त्रयो द्रवस्य
शेषौ द्वौ भक्तस्येति। एवं मितनिरवद्याहारग्रहणे साधोः प्रत्यहमुपवास एव, यदाहुः-निरवज्जाहाराणं साहूणं निच्चमेव उववासो। २ देसूणपुवकोडिपि पालयताण सामणं ॥१॥"तथा षष्ठाष्टमादिविशेषतपस्तपनेऽपि पारणे ऊनौदरिकयैव विशेषलब्धयः संभ
वन्ति, यथा वतिनः सनखकुल्माषमुष्टिजलचुलुकमात्रपारणेन षण्मासी यावन्नित्यषष्ठतपसा तेजोलेश्योत्पद्यते इति श्रीवीरजिIM नोक्तविधिना गोशालकस्य सोत्पेदे ॥ इत्यूनोदरिका २॥
वर्त्ततेऽनयेति वृत्तिः-भैक्षं तस्याः संक्षेपण-हासः, तच्च दत्तिपरिमाणकरणरूपमेकद्विव्याद्यगारनियमो रथ्यार्द्धग्रामग्रामनियमश्च, द्रव्याद्यमिग्रहाश्चात्रैवान्तर्भवन्तिः, तत्र द्रव्यतोऽद्य मया निर्लेपभिक्षायेव एकत्यादिदत्तिरूपमेव कुन्तामस्थितमण्ड. काधेन वा ग्राह्यमित्यादि, क्षेत्रत एकदिव्यादिगृहस्वग्रामपरग्रामग्रामा दिलब्धमेव दायकैन देहली जड्डयोरन्तर्विधायैव वा दत्तं ग्राह्यमित्यादि,कालतः प्रथम द्वितीयादिनहरादिनियतवेलायामेव ग्राह्यमित्यादि,भावतो लघुद्धनरनारोभूषिताभूषितमुखित दुःखितनिविष्टोदमशयितगौर कृष्णगानहसनरोदनादिपरदायकदत्तमेव ग्राह्यमित्यादि, एवं वृत्तिसंक्षेपः साधुभिः श्राद्धैश्च यथ शक्ति प्रत्यहं कार्यः, उक्तं च यतिदिनचर्यायाम्-"पइदिअहं चिअ नवनवम भिग्गहं चिंतयंति मुणिसीहा। जीअंमि जो भणि पच्छित्तमभिग्गहाभावे ॥१॥” तत एव च श्राद्धाः सम्मत्यपि सचित्तद्रव्यसंक्षेपाद्यभिग्रयहं गृहन्ति, इदं च तपः षष्ठाष्टमादिभ्योऽ पि दुरसाधमधिकतरफलं च, षष्ठाष्टमादि हि नियतं प्रत्याख्यायमानत्वेन निवृत्ताहारेच्छं च, इदं तु को वेद कदा द्रव्यायभिग्र
१५
Jain Education Intentional
For Private & Personal Use Only
www.jainelibrary.org