________________
RSRRRRRRRRRRANSPSS
तस्यैश्वर्य तथापीगहो सुकृतल्गितम् ॥ २१९ ।। तस्य त्रिखण्डाधिपतेः, सौधर्माधिपतेरिख । आसन् विशिष्टा अथापि, पट्टदेव्यः पुरोदिताः॥२२०॥तासां प्रत्येकमे कैकः,सहसः किल सेवकः। अष्टौ सहस्रा इत्यासन्, राज्योऽन्या अस्य भूपतेना२२१|| विश्रुतोऽपि श्रुताम्भोधिविरक्तोऽपि विशुद्धिभृत् । निःसङ्गोऽपि सुसङ्गोऽथ, तत्रागाद्गुरुपुङ्गवः ॥ २२२ ॥ पुण्यसारनृपः सार. परिवारपरिष्कृत : । सुरेन्द्र इव सर्वद्धर्या, मुदा तं वन्दितुं ययौ ॥ २२ ॥ प्रदक्षिणादिविधिना, वंदनादिपुरस्सरम् । गुरोः पुरो यथास्थानं, निषसाद स सादरम् ॥ २२४ ॥ यो यस्मात्प्रौढिमारूढः, स तं प्रौढिं परां नयेत् । नो चे कृतज्ञता काऽस्य, कथं वाऽस्य शुभोदयः? ॥२२५।। तदुक्तं-धर्मादधिगतैश्चर्यो, धर्ममेव निहति यः। स कथं मुगति यायात् , स्वस्वामिद्रोहपातकी? २२६ ॥ तस्मान्महद्भिः प्राग्धर्मात्, प्राप्तपाज्यमदद्धिभिः। विशेषेण निषेच्योऽसावित्यन्योऽन्योपकारिता । २२७॥ अमहद्भिमहत्तायै, महद्भिस्तत्मद्धये । सम्यग् धर्मः समाराध्यः, सर्वदाऽध्यमद्वरैः ॥ २२८ ॥ तस्यैवं चातकस्येव, वारिमुग्वारिपायिनः । | देशनामृतपानेन, बभूवान्नाशितंभवः ॥२२॥ अथो समयमासाद्य,गुरुं समयसागरम् । चतुर्ज्ञानभृतां मुख्यमप्राक्षीत् प्राग्भवं नृपः।। २३० ।। गुरुः प्राह महाभाग !, महापुरपुरे पुरा । महानन्दामिधानोऽभूत, महाऋद्धिमहास्तिकः ॥२३१॥ तनूजस्तस्य पित्रायः, शिक्षितोऽप्यास्तिकक्रियाः। धर्म प्रमाद्यन् संसार, माधस्तान् द्वेष्टय शिष्टधीः॥२३२॥ धर्मसारेति तस्याख्या, पितृदत्ताप्यपार्थका । हास्यायेव जने जज्ञे, सान्वर्थे वोचिताऽभिधा ॥२३३॥ हृद्यमुद्यानमन्येद्यः, सहृदा सुहृदा सह । सहर्ष विहरन्नेष, कौतुकोजानमानसः॥२३४॥ निसर्गशमसंसर्गकायोत्सर्गस्थमेकतः। वानर्याऽनार्यया दीर्यमाणाझं मुनिमैक्षत ॥२३५।युग्मं सर्वोप्युपद्रवादक्ष्यः, किं पुनर्मुनिरित्यसौ। निवारितापि तेनोचैः, पिशाचीवात्यजन्न तम् ॥ २३६ ॥ तागदुर्गोपसर्गेऽपि, निष्पकम्पः सुराद्रिवत् । अश्रीयत स तत्कालमेव केवल संविदा ॥२३७॥ यतिस्ततस्तं प्रत्यूचे, भद्रे। भज शमं हृदि । किं न चेतयसे सप्तभवाप्तं द्वेषज
For Private & Personal use only
JainEducationM ational