SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रमिते भूप्रदेशे प्रत्येक सभाजनानां साधूनां यत्रावस्थानं सकलावकाशपूरणं च स्यात् , तथा उपवेशनं यत्र प्रदेशे चिकीर्षित स्यात् तं चक्षुषा निरीक्ष्य रजोहरगेन च प्रमृज्य बहिनिषद्यामास्तीर्योपविशेत् , अविष्टोऽप्याकुश्चनप्रसारणादि तथैव कुर्वीत, वर्षादिषु च पीठादिषूक्तयैव सामाचार्योपविशेत् , दण्डादिविषये निक्षेपादाने अपि प्रत्यवेक्ष्य प्रमृज्य च विधेये,गमनमप्यावश्यक प्रयोजनवतः साधोः पुरस्तायुगमात्रप्रदेशसंनिवेशितदृष्टेरप्रमत्तस्य सस्थावरभूतानि संरक्षतोऽत्वरया पदन्यासमाचरतः प्रशस्त, स्थानमप्यूर्द्धस्थितिलक्षणमवष्टम्भादि च प्रत्यवेक्षितप्रमार्जितप्रदेशविषयम्, इन्द्रियाणां स्वस्वविषय प्रति व्यापारण मपि यथा रागद्वेषादिपापहेतुर्न स्यात्तथैव युक्तप्, उक्तमपि योगशास्त्रे " उपसर्गप्रसङ्गेऽपि, कापोत्सर्ग नुषो मुनेः। स्थिरी2 भावः शरीरस्य, कायगुप्तिर्निगयते ॥१॥ शयनासननिक्षेपादान चक्रमणेषु च । स्थाने च चेष्टानियमा, कायगुप्तिस्तु सा परा R॥२॥” इति कायगुतिः॥ इह समितयः प्रवीचाररूपाः, गुपयस्तु प्रवीचाराप्रवीचाररूपाः, प्रवीचारो नाम कायिको | वाचिको वा व्यापारः, कुशलां निरवद्यादिगुणोपेतां वाचमुदीरयन् समितो गुप्तोऽपि च स्यात् , गुप्तेः प्रवीचाररूपतयाऽप्यभिधानात , अतः समितो नियमागतः, गुप्तस्तु सपितत्वे नियमाद्भाज्या,यो हि कायवाची निरुध्य शुभं मन उदीरयन्नेकानमना धर्म स्यात् स गुमः स्यात् न समितः, समितेः प्रवीचाररूपत्वात् , यस्तु कायवाचौ सम्यक् प्रयुक्रे स गुप्तोऽपि समितोऽपि, यदुक्तं श्रीकसभाष्ये-" समिओ निमा गुत्तो गुत्तो समिअत्तर्णमि भइअब्यो । कुसलबइमुदीरंतो जं वइगुत्तोऽ वि समिओऽवि ॥१॥ जो पुग का पबईओ निरुज्झ कुसलं मग उदीरेइ । चिट्टइ इक्कग्गपणो सो खलु गुत्तो न समिओ उ R॥२॥" गुप्तिषु च समितीनानन्तर्भावोऽपि भवति, यदुक्तं तत्रैव-चाइगसमिई विदा तइआ पुण माणसा भवे समिई । सेसाउ काइआओ मणो अ सवामु अविरुद्वो ॥१॥" अत्या व्याख्या-वाचिक पमितिः सा द्वितीया-वागणुविर्मन्तव्या, Jain Education ingy! For Private & Personal use only Volww.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy