SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ॥६३॥ स्यैतादृशी ख्यातिः-प्रसिद्धिरस्ति तदा का प्रमाता-सम्यग्दृष्टिरात्मा, भवसुखस्य रसिकोऽस्तु ? न कोऽपि प्रमाता भवसुखरसिकः स्यादिति ||१४|| विश्वासघातकोऽयं भवः'पणैः प्राण गहणात्यहह महति स्वार्थ इह यान , त्यजत्युच्चैलॊकस्तृणवदघणस्तानपरथा । विषं स्वान्ते वक्त्रेऽमृतमिति च विश्वासहतिकृद , भवादित्युवेगो यदि न गदितः किं तदधिकैः ॥१५॥ टीका:-अहहेत्याश्चर्ये, इह-संसारे महति स्वार्थ उपस्थिते लोकः, पणैः प्राणैः प्राणान् मुक्त्वाविक्रीय, यान्-पुरुषान् गृणाति-स्वसात् करोति, अपरथा स्वार्थसमाप्ती सत्यां लोकः, अघृणः-निर्दयः सन् , तान् स्वार्थे सिति ये प्राणवद् गृहीतास्तान् पुरुषान् उच्चैः-सर्वथा तृणवत् त्यजति-क्षिपत्येव, किञ्चैतादृशदाम्भिकहृदये विष-हलाहलं मुखेऽमृतमिति भेदभूतमायामयाद् विश्वासघातकारिभवाद् यदि निर्वेदरूपोद्वेगो न भवेत्तदा ततोऽधिकैर्गदितैः कि? अर्थादलं विशेषकथनेनेति ॥१५।। मोहस्य भवभवनवषम्यघटना'दृशां प्रान्तैः कान्तैः कलयति मुदं कोपकलितैरमीभिः खिन्नः स्याद् घनधननिधीनामपि गुणी । ।।६३॥ Jan Education Internation For Private & Personal use only haw.jainelibrary.oro
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy