SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: टीका:-यत्र-भवनामकग्रीष्मे त्रयोविंशतिविधेन्द्रियविषयविवशा भविनः, तृषार्ताः-तृष्णया तृषिताः, खिद्यन्ते खिन्ना भवन्ति, 'करालक्रोधाऽर्कात् प्रचण्डक्रोधनामकचण्डकिरणात् , 'शमसरसि शोषं गतवति'= उपशमरूपकमलाकरे शुष्कता प्राप्तवति, अनुदिन-प्रतिदिनं 'स्मरस्वेदक्लेदग्लपितगुणमेदसि' कामवासनारूपस्वेदातया शोषितगुणनामकमेदोरूपधातुविशेषे, इह भवनामके भीष्मे-भयङ्करे ग्रीष्मे निदाघे तापहरणं शरणं किं ? न किमपि शरणमस्ति, अतोऽशरणोऽयं भवग्रीष्मः ॥१३॥ स्वार्थपरायणत्वेन भवसुखस्य रसत्यागः श्रेयान्'पिता माता भ्राताऽप्यभिलषितसिद्धावभिमतो, गुणग्रामज्ञाता न खलु धनदाता च धनवान । जनाः स्वार्थस्फातावनिशमवदाताशयभृतः, प्रमाता कः ख्याताविह भवसुखस्याऽस्तु रसिकः ॥१४॥ टीका:-'अभिलषितसिद्धौ' अभीष्टस्वार्थसिद्धौ सत्यामेव पिता पितृत्वेन, माता मातृत्वेन, भ्राता भ्रातृत्वेनाऽभिमतः-मानितो नान्यथा, यत्र च वसन् धनवान् न गुणग्रामज्ञाता खलु-निश्चये न धनदाता, यत्र 'जनाः स्वार्थस्फातौ-स्वार्थद्धिमपेक्ष्य सुष्ट्रव्यवहारकरणेकाभिप्रायवन्तः सन्ति, इह-संसारे भवसुख ॥६२।। in Education teman For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy