________________
अध्यात्मसार:
॥५९॥
यन् प्रचरात च, शोकनामकोऽग्निः प्रदीप्तः, अपकीर्तिरूपं भस्म, परित:-समन्तात , ततं विस्तृतमस्ति, एतैः कारणेः संसारः श्मशानमेव, तत-तस्मादिह-भवप्रेतगहे किमभिरमणीयत्वं? अर्थात न किमप्यभितो रमणीयत्वमस्ति ।
विषवृक्षेण सह संसारस्य तोलनम्'धनाशा यच्छायाऽप्यति विषममूर्छाप्रणयिनी, विलासो नारीणां गुरुविकृतये यत्सुमरसः । फलाऽऽस्वादो यस्य प्रसरनरकव्याधिनिवह
स्तदाऽस्था नो युक्ता भवविषतरावत्र सुधियाम् ॥१०॥ टीका:-यस्य-भवविषतरो र्धनाशानामकच्छायाऽपि (छायात इतरस्य तु का कथेत्यप्यर्थः) अत्यन्तविषममूर्छा-(चैतन्यामाव) प्रणयिनी 'यत्सुमरसः' यस्य भवविषतरो नारीणां-विलासिनीनां हावभावकटाक्षादिरूपविलासनामकः पुष्परसः 'गुरुविकृतये' अनन्तजन्ममरणादिवर्धकत्वेन दुरन्तत्वेन महाविकाराय प्रगल्भते, यस्य-भवविषतरोः प्रसर-व्यापकनरकान्तर्गतकोटिकोटिमितव्याधिसमुदायनामको रसास्वादो निगद्यते, तत्-तस्मादत्र भवविषतरौ सुधियां-सम्यग् ज्ञानवता, 'आस्था'-स्थितिर्विश्वासो वा, 'नो युक्ता'-युक्तिमती नेत्यर्थः। ॥१०॥
॥५
॥
Jain Education Intemall
For Private & Personal use only
www.jainelibrary.org