________________
अध्यात्मसारः
॥५७||
अयं संसारः कूटघटनाप्रचुरः'धनं मे गेहं मे मम सुतकलत्रादिकमतो विपर्यासादासादितविततदुःखा अपि मुहुः । जना यस्मिन् मिथ्यासुखमदभृतः कूटघटना
मयोऽयं संसारस्तदिह न विवेकी प्रसजति ॥७॥ टीकाः--धनं मदीयं, गृहं मम, मे पुत्रवनितादिकं, 'अतो विपर्यासात्' मिथ्याज्ञामरूपविपरीतयुद्धितो, मुहुः--वारंवारं, 'आसादितविततदुःखाः'बहुविधविस्तृतदुःस्वपरम्परासम्पन्ना जनाः, कूटघटनामये यस्मिन् संसारे 'मिथ्यासुखमदभृतः सुखाभासस्य सुखत्वेनाऽभिमानं बिभ्रतो भवन्ति, तस्मादयं संसारः, 'कूटघटनामयः असत्यरचना-कल्पनामयः, कल्पितोऽस्ति, ततोऽसद्--भ्रमाऽऽत्मके भवेऽस्मिन् 'विवेकी न प्रसजति' विवेकविशिष्टो न प्रकर्षण सक्ति करोत्येवेति ॥७॥
संसारोऽयं कारागार एव'प्रियास्नेहो यस्मिन्निगडसहशो यामिकभटो-- पमः स्वीयो वर्गो धनमभिनवं बन्धनमिव ।
॥५७॥
in Eden
For Private & Personal use only
www.jainelibrary.org