________________
अध्यात्म
सारः
॥५६॥
Jain Education Internat
यति वा, मृर्ध्नि = मस्तके (मस्तिष्कान्तः) विषमं कषायनामकसर्पसमूहं वहते धत्ते, गले व विषय नामकान्यस्थीनि क्षिपति-परिधत्ते, किश्च वक्रं स्मर एव मुखं यस्य स = वक्रकामसंज्ञारूपमुखः सन् महादोषनामकान् दन्तान्, प्रकटयति--दर्शयति, एतादृशोऽयं भवनिशाचरः कथमपि न विश्वासयोग्यो- प्रीतिप्रतीतिपात्रं भवत्येव विश्वजनाऽविश्वनीय एवैष भवनक्तञ्चरः ||५||
जना
अस्यां भवाटव्यां विना सहायेन गमनमनुचितम् - लब्ध्वा धर्मद्रविणलवभिक्षां कथमपि वामाक्षीस्तन विषमदुर्गस्थितिकृता
प्रयान्तो
विलुट्यन्ते यस्यां कुसुमशर भिल्लेन बलिना,
भवाटव्यां नास्यामुचितमसहायस्य गमनम् ॥६॥
टीका:--केचिजना मार्गदर्शकगुरोः कस्यचित् साहाय्यं विना भववनं पारयितुं साहसं कृतवन्तः, कथमपि धर्म नामक द्रव्यलवस्य भिक्षां लब्ध्वा प्रयान्तः, 'वामाक्षीस्तन विषम दुर्गस्थितिकृता- कामिनीकाश्चनकुम्भकल्पस्तनरूपविषम दुर्गनिवासकारिणा 'कुसुमशरभिल्लेन बलिना' = कामदेवनामकभिल्लेन बलवता, यस्यां भवाटव्यां, विलुटयन्ते = चौर्यविषयीक्रियन्ते, पथिकानां धर्मधनादिपदार्थाः सर्वेऽपहियन्ते, अतोऽस्यां भव नाम काटव्यां, सहाय रहितस्यैककस्य गमनं नोचितं ॥ ६ ॥
Use Only
॥५६॥
www.jainelibrary.org