________________
अध्यात्मसार:
॥५५॥
नितान्तं दुःखातों विषमविषये आंतकभी
र्भवः सूनास्थानं तदहह महासाध्वसकरम् ॥४॥ टीकाः--यत्र--भवरूपे सूनास्थाने पुत्रस्त्रीसम्बन्धिस्नेहेन निर्मितं पाशं गले दत्त्वा 'प्रकृति कृपणाः'= निसर्गतो दीनरङ्काः, दःखार्ताः, 'प्राणिपशवः'-जीवरूपाः पशवः, विषमविषयनामकै तिकमटेःसौनिकजने नितान्तं-मातत्येन, निपीड़यन्ते-निविडपीडाविषयीक्रियन्ते, तत-तस्मात , अहहेति खेदे, महासाध्वसकरं-महाभयङ्करं भवरूपं सूनास्थानं पश्यतर भो भो भव्याः ॥४॥
भवरूपनिशाचरचित्रम्'अविद्यायां रात्रौ चरति वहते मूर्ति विषमम् कषायव्यालोघं क्षिपति विषयास्थीनि च गले । महादोषान् दन्तान् प्रकटयति वक्रस्मरमुखो
न विश्वासार्होऽयं भवति भवनक्तञ्चर इति ॥५॥ टीकाः-अहो कीदृशो निशाचरः ? पश्य पश्याधुना परिदयमानं विशेषण भवनिशाचरं, (१) एष भवनिशाचरः, अविद्यायां आत्मविषयकाऽज्ञानतानामकघनश्यामायां रात्रिरूपायां, चरति-भ्रमति भक्ष
॥५५॥
Jain Education Internatio
Far Private & Personal use only
www.jainelibrary.org