________________
अध्यात्म
सार:
॥५४॥
प्रियाज्याला यत्रोदवमति रतिसन्तापतरला कटाक्षान् धूमोघान कुवलयदलश्यामलरुचीन् । यथाऽङ्गान्यङ्गाराः कृतबहुविकाराश्च विषयाः
दहन्त्यस्मिन् वो भववपुषि शर्म क्व सुलभम् ॥३॥ टीका:-अहो ! किंरिशिष्टो भवाग्निः प्रदीप्तो दृश्यते ? पश्यत भो भव्या यत्र-भवाऽग्नौ रतिजन्यसन्तापेन चञ्चला सती प्रियानामकज्याला, नीलकमलदलश्यामलकान्तिविशिष्टान, कटाक्षनामकधमसमदायान , उद्वमति-ऊर्ध्व क्षिपति, 'अथाऽङ्गान्यङ्गाराः' 'कृतबहु विकाराश्चविषयाः यथाऽङ्गारा अङ्गानि दहन्ति तथा विषयरूपा अङ्गारा, शरीरादिरूपद्रव्याऽङ्गाध्यात्मिकज्ञानादिरूपभावाऽङ्गानि दहन्ति, एतादृशेऽस्मिन् संसारशरीरे (रूपे) वमो 'क्व शर्म सुलभम्'-कुत्र कुतो वा शर्म-सुखं सुलभं ? अर्थाद् दुःखमेव सुलभम् ॥३॥
ससारनामकवधस्थानवर्णनम्'गले दत्त्वा पाशं तनयवनितास्नेहघटितम् , निपीड्यन्ते यत्र प्रकृतिकृपणाः प्राणिपशवः ।
॥५४॥
Jain Education Interation