________________
अध्यात्म
सारः
॥५३॥
प्रसरगरूपसरस्या नीरलहरी, वैराग्यविधायकश्रद्धारूपप्रियपवनेन पीना सती सतां सुखकृते एव, यथा सरोवरस्य नीरतरङ्गः, अनुकूलसुमधुरपवनेन विलसितः सतां सुखाय भवति, तथा भवस्वरूपचिन्तारूपाध्यात्मप्रसारः, वैराग्यसम्यगदर्शनोभयतः परिपुष्टः सतामध्यात्मरसिकानां सुखाय--आनन्दाय जायत एवेति ॥१॥
संसारसागरस्याऽतिभयानकता'इतः कामौर्वाऽग्नि ज्वलति परितो दुःसह इतः, पतन्ति ग्रावाणो विषयगिरिकूटाद् विघटितः । इतः क्रोधावर्तो विकृतितटिनीसङ्गमकृतः
समुद्र संसारे तदिह न भयं कस्य भवति ? ॥२॥ टीकाः-इतः, एकतो दुःसहः कामनामको वडवानलः परितः-समन्ताज्ज्वलति, अत्र कामरूपवडवानलः, संसारसागरे मुख्यमहाभैरवः, इतः पश्य भाग्यवन् ! विषयनामकगिरिशिखराद् विघटितास्त्रुटिताः प्रस्तराः पतन्ति, इतो विकारनामकनदीनां सङ्गमेन कृता-सृष्टः क्रोधरूप आवत्तॊ भयङ्करः, तत्-तस्मादिहसंसारसागरे कस्य ज्ञानिनो भयं न भवति १ अर्थात् सर्वस्य सम्यग्दर्शिनो भवत्येवेति ।।२।।
वह्मिस्वरूपसंसारदर्शनम्
॥५३॥
Jain Education Internatio
For Private & Personal use only
www.jainelibrary.org