________________
अध्यात्मसार:
॥५२॥
टीकाः- एकोनविंशतितमतीर्थकरमल्लिनाथादीनां महतामपि त्वरूपमहाऽनर्थमूलकारणं दम्भलेशोऽपि जातः, गणनाऽतीतदम्भस्य तु का वार्तेत्यपि शब्दार्थः, अतो महात्मनाऽन्तरात्मना, तद्दम्भमात्रपरिहाराय यतितव्यमेव, दम्भाऽऽरम्भजन्यदुरितदरीकरणाय सातत्येन यत्नो विधेयः ॥२२॥
___ इत्याचार्यश्रीमद्विजयलब्धिसूरीश्वरपट्टघरश्रीमद्विजयभुवनतिलकसूरीश्वरपट्टघरभद्रङ्करमरिणाऽध्यात्मसारग्रन्थे भुवनतिलकाख्यायां टीकायाँ दम्भत्यागाख्यस्तृतीयोऽधिकारः समाप्तः ॥७॥
चतुर्थो भवस्वरूपचिन्ताऽधिकारः प्रस्तूयतेऽधुना-- भवस्वरूपचिन्तनस्यापूर्वमाहात्म्यम्-- 'तदेवं निर्दम्भाऽऽचरणपटुना चेतसि भवस्वरूपं संचिन्त्यं क्षणमपि समाधाय सुधिया । इयं चिन्ताऽध्यात्मप्रसरसरसी नीरलहरी,
सतां वैराग्याऽऽस्था प्रियपवनपीना सुखकृते ॥१॥ टीकाः-तस्मादेवंपद्धत्या दम्भस्याऽऽत्यन्ताभावपूर्वकसदाचरणे पटुना-कुशलेन, सुधिया--समीचीन- बुद्धिवेभवशालिना पुरुषेण क्षणमपि चेतसि--आत्मनि, समाधाय-समाहितो भूत्वा, भवस्य स्वरूप-अध्यात्म
॥५२॥
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org