SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ अध्यात्म- सार: ॥५१॥ टीकाः--जिनः तीर्थकरैः, सर्वथा एकान्तेन 'किञ्चिन्नानुमत'=न किश्चिद् विहितं, एकान्तेन किञ्चिन्न निषिद्धं-प्रतिषिद्धं, परन्तु परमेश्वरेणैषाऽऽज्ञा शासनं प्रकटितं, यद् यद् विहितं-शास्त्रे विहितं सर्व विधातव्यम् , यद् यन्निषिद्धं सर्व न कर्त्तव्यमपितु तत्र सर्वत्र कार्याकार्यमध्ये सर्वथा दम्भरहितेन भाव्यं नाऽन्यथेति, यदि दम्भश्चेत्तत्र तदा सर्व निष्फलं, तस्माद् दम्भस्य त्यजनं सर्वस्मात् प्रथमं निरन्तरमावश्यकमनिवार्य कार्य तिष्ठत्येवेति ॥२०॥ __ आत्मार्थिनां स्वल्पोऽपि दम्भो नोचितःअध्यात्मरतचित्तानां दम्भः स्वल्योऽपि नोचितः । छिद्रलेशोऽपि पोतस्य, सिन्धु लङ्घयतामिव ॥२१॥ टीकाः --अध्यात्मामृतभावे रममाणमानसानां स्वल्पोऽपि अत्यन्ताऽल्पोऽपि दम्भो--मायाभावो, नोचितः-नौचित्यमञ्चति, सर्वथा मनसायस्पर्शनीयो दम्भोऽस्ति, यथा सिन्धु-सागरं, लङ्घयता--पारमुत्तरतां सांयात्रिकानां वा, पोतस्य-प्रवहणस्य छिद्रस्य-विवरस्य लेशोऽपि-छिद्रांशोऽपि नोचितः ।।२१॥ ___महतामपि दम्भांशो महानर्थहेतुः-- 'दम्भलेशोऽपि मल्ल्यादेः, स्त्रीत्वाऽनर्थनिबन्धनम् । अतस्तत्परिहाराय यतितव्यं महात्मना ॥२२|| ॥५ ॥ Jain Education International For Private & Personal use only SAww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy