________________
अध्यात्मसार:
॥४९॥
टीका० "तत्तत्कालोचितामपि यतनाम्-तत्तत्कालकरणीयतारूपेणोचितषडावश्यकादिरूपसाधुक्रियापालनरूपं प्रयत्नं सम्यग-सुविधिना ये वेषविडम्बका न कुर्वते, अहो तैम्मिकै-र्वश्चर्यतिनाम्नैवनाममात्रयतिशब्देनैव विश्वं वञ्च्यते ॥१६॥
हीनोऽपि दम्भो विश्वं तृणाय मन्यतेधर्मीतिख्यातिलोभेन प्रच्छादितनिजाश्रवः ।
तणाय मन्यते विश्वं हीनोऽपि धृतकैतवः ॥१७॥ टीका:-'धर्मीति ख्यातिलोभेनेति लोकानां मध्ये स्वं 'धर्मीतिप्रसिद्धि प्रज्ञापयितु महत्त्वाऽऽकाङ्क्षया, 'प्रच्छादितनिजाश्रवः स्थगितनिजपापमालिन्यः, कपटपटावृतः, धर्महीनोऽपि हीनताभागपि, विश्वं-जगत , तृणाय-तृणवत्तच्छं मन्यते, श्रेष्ठताहीनोऽपि स्वं श्रेष्ठं गणयन् , विश्वं तृणाय मन्यते कपटपटुः ॥१७॥
__ दम्भी योगप्रतिबन्धकं कठिनकर्म बध्नातिश्रात्मोत्कर्षात्ततो दम्भी परेषां चाऽपवादतः । बध्नाति कठिनं कर्म बाधकं योगजन्मनः ॥१८॥
टीकाः, ततः विश्वं तृणाय मन्यते कपटी, तत्कारणात् , आत्मोत्कर्षात्='अहमेवोत्कृष्टो नाऽन्यः' अर्थाद् दम्भी स्वस्य महत्त्वप्रशंसया, 'परेषां चापवादतः' अन्येषां च निन्दया, अर्थान्मत्तः सर्वोऽपकृष्टः'
O॥४९॥
Jain Education Internet 1095
For Private & Personal use only
www.jainelibrary.org