________________
अध्यात्म-1
मारः
|॥४८॥
टीकाः-(१) निर्दम्भस्य दम्भरहितस्य, यादृशः स्वयमस्ति तादृशस्वरूपदर्शकस्य, (२) शुद्धार्थ भाषिणः=जिनेश्वरप्रणीतप्रवचनोक्तस्यात एव शुद्धसूत्रार्थप्ररूपकस्यार्थाच्छुद्धप्ररूपणाकारकस्य (३) गुणरागिणः-गुणवन्निष्टगुणपक्षपातिनः, अस्य-संविज्ञपाक्षिकरूपस्य, 'अबसन्नस्याऽपि' चारित्राचारे शैथिल्यवतोऽपि, बकुशकुशीलसदृशस्याऽपि, 'स्वल्पाऽपि यतना'-अत्यन्ताऽल्पोऽपि शुद्धश्चारित्रविषयकप्रयत्नो 'निर्जरा दत्ते-कर्मनिर्जरारूपं फलं करोत्येवेति ॥१४॥
दम्भिनां यतिनां नामाऽपि पापाय कल्पते'व्रतभाराऽसहत्वं ये, विदन्तोऽप्यात्मनः स्फुटम् । दम्भाद यतित्वमाख्यान्ति, तेषां नामाऽपि पाप्मने ॥१५॥
टीकाः-महाव्रतानां मेरुभारमुत्पाटयितु स्वीय आत्मा, सर्वथासमर्थत्वाभाववानस्तीति सम्यग् जानन्तोऽपि ये वेषविडम्बका विश्वं वश्चयितु स्वं 'सुविहितो यतिरह' इति दम्भेन प्रख्यापयन्ति, तेषां नामाऽपि पापायवाऽन्यस्य तु का वार्ता ? ॥१५॥
ये यतनां कुर्वते ते यतिनः, ये यतनां न कुर्वते ते यतिनः कथंस्युः ? कुर्वते येन यतनां सम्यककालोचितामपि । तैरहो यतिनाम्नैब दाम्भिकैर्वच्यतेजगत् ॥ १६ ॥
॥४८॥
Jain Education Interation
For Prato Paranan
•
ww.jainelibrary.org