________________
अध्यात्म-18 सारः
॥४७||
षभिरुपमाभि धर्मे दम्भ उपप्लव:'अब्जे हिमं तनौ रोगो, वने वहिन दिने निशा।
ग्रन्थे मौख्यं कलिः सौख्ये. धर्मे दम्भ उपप्लवः ।।११।। टीकाः-(१) सहस्त्रदले कमले हिमस्य पातो यथोपप्लवो-महाभयम् , (२) सौष्ठवशालिनि शरीरे रोगो यथोपप्लवो महाभयरूपः, (३) वृशावलिमहामनोहरेऽपि वने वहिनयथोपप्लवो-महाभयम् (४) दिवसे भयङ्करपुष्कलवादलजनितान्धकारनिशारूप उपप्लवः, (५) स्वविरचितपुस्तकरूपग्रन्थे मूर्खता-बुद्धिविकलता, उपप्लवः, (६) कुटुम्बिस्नेहिजनसत्कसुखममये स्नेहिमिः सह मिथःकालरुपप्लधः, तथाऽऽचाररूपे धर्मे दम्भ उपप्लव उपद्रवभृतमहाभयम् , अतो धर्मसम्बन्धिचरणकरणरूपक्रियामात्रे दम्भः समूलमुन्मूलनीयः ॥११॥
मूलोत्तरगुणपालनेऽसमर्थस्य साधोः सुश्रावकता युक्ता'अत एव न यो धतु, मूलोत्तरगुणानलम् ।
युक्ता सुश्राद्धता तस्य, न तु दम्भेन जीवनम् ॥१२॥ टीकाः -एतावती भयानकता दम्भस्य विद्यतेऽत एवैवं कथयितु शक्यते यतो यो साधुश्चरणसप्तति
॥४७॥
Jain Education Internatio
Far Private & Personal use only
www.jainelibrary.org