SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥४६॥ दुराचारस्य वृद्धि विधत्त एव तथा वेषधारकाणां व्रतं दम्भद्वाराऽव्रतस्यैव-व्रताऽभावस्यैव वृद्धये भवतीति दम्भो व्रतमव्रते परिवर्तयत्येव दम्भः सर्वशुभमशुभं कत्तु प्रत्यलः ॥८॥ दम्भे विश्वस्ता बालिशाः प्रतिपदं स्वलन्त्येवजानाना अपि दम्भस्य, स्फुरितं बालिशा जनाः । तत्रैव दृढविश्वासाः प्रस्खेलन्ति पदे पदे ॥१॥ टीका० अहो कीदृशा मूर्खाः ! मायाया प्रपञ्चलीला जानन्तोऽपि वालिशाः, तस्मिन् दम्भ एव दृढविश्वासाः-दृढप्रतीति धारकाः सन्तः पदे पदे-स्थाने स्थाने प्रस्खलन्ति-पतनं प्राप्नुवन्त्येव-हानिमन्तो, दुःखभाजो भवन्त्येवेति || दम्भो मोहस्य माहात्म्यप्रकटने साहाय्यं करोत्येव 'अहो मोहस्य माहाल्यं, दीक्षा भागवतीमपि। दम्भेन यद्विलुम्पन्ति, कजलेनैव रूपकम् ॥१०॥ टीकाः-महदाश्चर्यमिदं लोके, पश्यत लोकाः । अहो ! मोहस्य माहात्म्यं-प्रभावो यतो भागवतींपारमेश्वरी प्रव्रज्या दम्भेन बालिशा विलुम्पन्ति-विनाशयन्ति, यथा कज्जलेन रूपकं-शुभचित्रं विलोपविषयीभवति. ॥१०॥ ॥४६॥ Jain Education Intemato For Private & Personal use only |www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy