________________
अध्यात्म-1 मारः
॥४४॥
मूढानामेव दम्भेन महती कदर्थना'स्वदोषनिह्मवो लोक-पूजा स्याद् गौरवं तथा ।
इयतैव कदर्थ्यन्ते, दम्भेन बत बालिशाः ॥७॥ टीका:-'स्वदोषनिहनवो' आत्मना कृताना दोषाणामपलापः स्थगनमावरणमिति यावद् , एष दोषो दम्भेन भवतीत्येका विडम्बना, दम्भेन 'लोककृतसत्कारसन्मानादिरूपा पूजा भवतीति द्वितीया कदर्थना, 'स्याद् गौरवं तथा' यथा पूजा तथा जगति जनकृतगुरुभावो, गुरुरेषोऽस्माकमिति जनकृतोचतरस्थानतेति तृतीया विडम्बना, एताभिस्तिसृभिर्विडम्बनाभिर्वालिशा दम्मेन कदर्थनाविषयाः क्रियन्ते, महावृत्तों दम्भो मृढान गौरवादिना प्रलोभ्य, नरकादिदुर्गती पातयतीति, मूढा गौरवादिके प्रलोभने लुन्धप्रसन्ना दम्भं शरणं गच्छन्ति ॥७॥
वेषधारिणां व्रतमपि दम्भोऽवतवर्धकं करोत्येव'असतीनां यथा शील-मशीलस्यैव वृद्धये ।
दम्भेनाऽव्रतवृद्धयर्थ, व्रतं वेषभृता तथा ॥८॥ टीका:-यथाऽसतीनां वेश्यानां कुलटानां वा परेषामाकर्षणहेतवे पालितमपि शीलमशीलस्य
॥४४॥
Jain Education
or
For Private & Personal use only
www.jainelibrary.org