________________
अध्यात्म
सारः
॥४३॥
Jain Education Internation
दम्भेन सर्वः शुभाचारो दृष्यत एव'केशलोचधराशय्या - भिक्षाब्रह्मत्रतादिकम् दम्भेन दूयते सर्वं
त्रासेनैव महामणिः ||५||
टीका:- केशस्य लोचः - लुञ्चनं पृथिव्यां शयनं धरारूपशय्या वा, निर्दोषभिक्षणशीला मिक्षा, ब्रह्मत्रतादिकं सर्व, आचरणमेकेन दम्भेन दूष्यते दूषितं क्रियते, यथा महामूल्यवान् महामणिः, त्रासनामकमणिदोषेण दूषितः सन् मूल्यरहितो भवतीति ॥१५॥
दम्भस्याचरणं दुःखेन त्यक्तु ं शक्यते'सुत्यजं रसलाम्पटयं सुत्यजं देहभूषणम् ।
सुत्यजाः कामभोगाद्या, दुस्त्यजं दम्भसेवनम् ||६||
टीका:- रसनाया रसविषयक परमासक्तिः सुखेन त्यक्तु ं शक्यते, रसलाम्पटयनिवारणं सुशकम्, देहस्यालङ्कारादिकभूषणं सुखेन त्यक्तु ं शक्यते, कामभोगादयः सुखेन त्यक्तु ं शक्यन्तेऽपितु दम्भसेवनं महादुःखेन त्यक्तु' शक्यते, निःस्पृहतायोगेन दम्भत्यागो दुष्करोऽपि सुकरो भवति ॥६॥
For Private & Personal Use Only
॥ ४३ ॥
www.jainelibrary.org