SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ||४२॥ Jain Education Internationa दम्भेन व्रतधारणं कृत्वा परमपदेच्छा वन्ध्या भवति'दम्भेन व्रतमास्थाय यो वाञ्छति परं पदम् । लोहनावं समारुह्य, सोधेः पारं यियासति ॥ ३ ॥ यो नो दम्भपूर्वकं व्रतं प्रतिपद्य परं पदं मोक्षपदं वाञ्छति, स एतादृशो मृढो भवति हि लोहस्य नावं समारू, अन्धेः- समुद्रस्य पारं परकूलं यातुमिच्छति सेच्छा कदाचिदपि पूर्णतां नायाति प्रत्युतो - न्मादप्रकारो भात्येव ॥ ३॥ दम्भो जीवन् व्रततपोजपादिकं निष्फलं करोत्येवकिं व्रतेन तपोभिर्वा, दम्भश्चेन्न निराकृतः । किमादर्शन किं दो-येद्यान्ध्यं न दृशोर्गतम् ॥ ४ ॥ यदि दम्भो व्रतादिरूपजीवनतो न निष्काशितस्तदा व्रतेन किं तपोभिः किमर्थात्तपोत्रतादिकं निरर्थकमेव तद् वस्तु दृष्टान्तेन द्रढयति-यदि नयनयोः स्थितमन्धत्वं न गतं तदाऽऽदर्शन -दर्पणेन किं, दीपैः किमर्थाद् दर्पणदीपादिसहकारिरूपसाधनं निरर्थकं साध्यसिद्धौ दम्भाऽभावो मुख्यसाधनं, तत्र तपोव्रतादिकं सहायकसाधनं द्रष्टव्यम्, यथा दर्शनविधौ चक्षुः परं कारणं, प्रकाशकदीपादिकं निमित्तकारणम् ||४|| ॥४२॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy