________________
अध्यात्मसार:
१४॥
'निर्दम्भाचारशालिना' मित्यनन्तरश्लोकोक्तवाक्येनोक्तं हि यो निष्कपटक्रियाकारी तस्याऽध्यात्म प्रकर्षण वर्धमानं स्यानान्यथेत्येवं प्रसङ्गमङ्गन्या ग्रन्थकारो दम्भत्यागाधिकारमुपक्रमते तथाहि (१) दम्भो हि मुक्तिरूपसाध्यभावनामकलतादहनायाऽलं भवति, दम्भवतां संवेगरङ्गोऽदृश्यतां याति (२) दम्भो हि क्रियारूपचन्द्रग्रासे राहुभूतोऽस्ति, अध्यात्मांशभूतक्रियाभञ्जनकारी (३) दम्भो हि दौर्भाग्यासाधारणकारणम , मायया जनो जगति दौर्भाग्यभारभाग भवति (४) दम्भो हि अध्यात्मजन्यसुखविषयेऽर्गलाऽर्थात् प्रतिबन्धको भवति, दम्भेनाऽध्यात्मसुखजानन्दस्याऽत्यन्ताऽभावः ॥१॥
पुनः कीदृशो दम्भः? दम्भो ज्ञानादिदम्भोलिदम्भः कामाऽनले हविः ।।
व्यसनानां सुहृद् दम्भो, दम्भश्चोरो व्रतश्रियः ॥ २ ॥ (५) दम्भो हि ज्ञानरूपपर्वतस्य चूर्णने वज्रतुल्यः, अध्यात्मांशभृतज्ञानविध्वंसकोऽस्ति, (६) कामरूपाऽग्नौ घृताहूतिरिव दम्भः, दम्भहविषा कामनामकोऽग्निः पुनः पुनरभिवर्धते एव, (७) व्यसनानां विपदां वेदनानां वा मित्रं दम्भः, दम्भेन दुखोदधिनिर्मर्यादमुच्छलत्येव (८) व्रतरूपाया लक्ष्म्याश्चौरो दम्भः, दम्भो हि महादुर्लभव्रतरूपां महालक्ष्मी चोरयत्येव अतो दम्भत्यागायाऽध्यात्मानुरागिभिः प्रयतितव्यम् ।।२।।
॥४॥
Jan Education Intem
For Private & Personal use only
www.jainelibrary.org